Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 417
________________ २५८ हरिषेणाचार्यकृते बृहत्कथाकोशे [१०५. २०श्रेष्ठी भूपस्य वाक्येन प्राप्य तगोकुलं द्रुतम् । स्वगोपतिसमं तत्र न पश्यति वृषं परम् ॥२०॥ आगत्य गोकुलात् प्राप्य नरेन्द्रं वक्ति वाणिजः । मगोपतिसमस्तत्र विद्यते वृषभो न च ॥२१॥ त्वद्गोकुलेऽखिले राजन् मद्बलीवर्दसंनिभः । न दृष्टो वृषभो यावत् तेनाजातो वृषं विना ॥२२॥ आकर्ण्य तद्वचो राजा श्रेष्ठिनं निजगौ रुषा। तवाथो वृषभो भद्र कीदृशो मे प्रदर्शय ॥ २३ ॥ नरेन्द्रवचनं श्रुत्वा लुब्धश्रेष्ठी बमाण तम् । गत्वा मद्भवनं भूप गोपतिर्मम दृश्यताम् ॥ २४ ॥ भूपालः श्रेष्ठिवाक्येन तगृहं कौतुकाशया। हरिहस्त्यादियुग्मानि पश्यतीमानि तद्यथा ॥२५॥ कानिचित्कानकैर्दिव्यैः कृतानि वरशिल्पिभिः । कानिचिन्मौक्तिकैर्दिव्यैः कानिचिद्वज्रगारुडैः ॥२६॥ कानिचिच्चन्द्रकान्ताभैः कानिचिद्रविसंनिभैः । पुष्परागेन्द्रनीलैश्च मणिभिर्भान्ति कानिचित् ॥२७॥ विलोक्यैतानि युग्मानि चित्ररूपाणि तगृहे । तद्रूपहृतचेतस्को विस्मयं नृपतिर्ययौ ॥ २८ ॥ ॥ पश्चाजातीप्रसूनाभपद्मरागविनिर्मितम् । ददर्श भूपती रम्यं वृषभं मूल्यवर्जितम् ॥ २९ ॥ दृष्ट्वेमं वृषभं रम्यं विस्मयव्याप्तमानसः । बभाण श्रेष्ठिनं तत्र तोषकण्टकिताङ्गकः ॥ ३० ॥ त्वदलीवर्दसंकाशो मदृषो न कदाचन । मयेदमधुना ज्ञातं बहुना जल्पितेन किम् ॥ ३१ ॥ नितान्तं षड्रसोपेतं स्वर्णपात्रादिषु स्थितम् । चकार भोजनं भूप महे' प्रीतमानसः ॥ ३२॥ सुवर्णपात्रिकां भृत्वा नानारत्नैः प्रभोज्वलैः । तत्प्रिया नागवस्वाख्या लुब्धष्ठिकरे ददौ ॥ ३३॥ ॥ नानारत्नभृतां पात्रीं महारजतनिर्मिताम् । त्वं देहि नरनाथाय भार्ययाऽसौ प्रचोदितः ॥ ३४ ॥ रत्नपात्रीं समादाय प्रसारितकरद्वयः । भूपालपुरतस्तस्थौ श्रेष्ठी दानपराङ्मुखः ॥ ३५ ॥ रत्नपात्रकरं दृष्ट्वा संप्रदानपराङ्मुखम् । चक्रेऽस्यार्थीनुगं तस्य स्पटहस्ताभिधं नृपः ॥ ३६॥ इदं नाम विधायास्य सार्थकं नरकुञ्जरः । विस्मयव्याप्तचेतस्को जगाम निजमन्दिरम् ॥ ३७॥ तद्वृषार्थं महालोभगृहीतः स्पटहस्तकः। जगाम सिंहलद्वीपं बोधिस्थो यथा धनं प्रति ॥ ३८॥ ॥ चतस्रकोटिकाः प्राप्य कनकस्य स वाणिजः । वार्षिमध्ये मृतिं पाप भिन्नबोधिस्थकः सुधीः ॥३९॥ ततः स्वमन्दिरे सो बभूवायं भयंकरः । रक्षन्निजनिधिं तत्र तीक्ष्णदंष्ट्रो वितिष्ठते ॥४०॥ न कस्यचित् कदाचिच धनान्ते स्थातुमप्ययम् । ददाति दन्दशूकोऽपि भीषिताशेषजन्तुकः॥४१॥ ततो गरुडदत्तेन ज्येष्ठपुत्रेण रोषतः । निहतोऽयं गतायुः संश्चतुर्थं नरकं ययौ ॥ ४२ ॥ ततो खडखडाभिख्ये जलावते स तद्भवे । जातो दशसमुद्रायु रकः पापकर्मतः ॥ ४३ ॥ ॥ योऽसौ गरुडनामास्य ज्येष्ठपुत्रस्तुरीयके । श्वभ्रे मृतिं परिप्राप्य तदायुर्नारकोऽभवत् ॥४४॥ नागवखा समं दुःखी नागदत्तो विवेकधीः । धर्मं श्रुत्वा मुनेः पार्चे बभूव श्रावको महान् ॥४५॥ कामभोगान् विहायाशु संसारत्रस्तमानसा । सुव्रतान्ते प्रवव्राज धीरा नागवसूरियम् ॥ ४६॥ नागदत्तोऽपि संपाल्य धर्म श्रावकगोचरम् । प्रययौ पञ्चतावाप्तिं सुसमाधानयोगतः॥४७॥ विमाने नन्दिघोषाख्ये ब्रह्मलोकसमुद्भवे । देवो दशसमुद्रायुर्बभूवोऽसौ महाप्रभुः ॥४८॥ ॥ नागवखर्यिका साध्वी चम्पोद्यानवने तदा । विधायानशनं कृत्वा महाशुक्रेऽभवत् सुरः ॥४९॥ स्पष्टहस्तचरो जीवश्चतुर्थनरकोद्भवः । ततो निःसृत्य जातोऽयं वृषभाख्यगिरौ करी ॥ ५० ॥ योऽसौ गरुडदत्ताख्यो ज्येष्ठपुत्रोऽपि तद्भवः । काकजङ्घाभिधो व्याधस्तगिरावभवद् बली ॥५१॥ 1 पफ omit No. 20. 2 [ तेनायातो]. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ त्रिकलम् , ज त्रिकलमिदम्. 5[भूपस्तद्गृहे ]. 6ज रत्नहस्ताभिधं. 7 [बोधिस्थोऽथ धनं]. 8ज चतस्रः 9 पफ खडखडामिख्यो. 10 पफ परिप्राप. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566