Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 395
________________ २३६ हरिषेणाचार्यकृते बृहत्कथाकोशे [ ९७. १२०ततो महाप्रमोदेन तुर्यमङ्गलनादिना । ददामि भवतीस्तस्मै नान्यथा नियतं सुताः ॥ १२०॥ एवं निगद्य ताः कोऽपि कञ्चकी प्रेषितोऽमुना । तत्समीपं परिप्राप्य निजगादेति तं पुनः॥१२१॥ यथाऽस्मद्भूपतिर्वक्ति भवन्तं मन्मुखादरम् । सर्वकार्यसमासंगकारणोद्यतमानसम् ॥ १२२ ॥ प्रवेशं यदि मे तत्र करोति त्रिपुरे चिरात् । ततः कन्यां प्रयच्छामि भक्तो नान्यथा क्वचित् ॥१२३॥ ' श्रुत्वा कञ्चुकिनो वाक्यं रुद्रोऽपि निजगावमुम् । प्रवेशं त्रिपुरे वृद्ध करोम्येतस्य सांप्रतम् ॥१२४॥ निशम्य तद्वचो वृद्धः संप्राप्य स्खपति क्रमात् । जगादेमं पुनः प्रीतो विस्मयाकुलमानसः॥१२५॥ राजन् मुनिर्वदत्येवं यदि कन्याः प्रयच्छसि । मह्यं ततः प्रवेशं ते करोमि त्रिपुरे द्रुतम् ॥१२६॥ वृद्धकञ्चुकिवाक्येन देवदारुः स खेचरः। स्वगेहं रुद्रमानीय बभाणेमं ससंभ्रमम् ॥ १२७ ॥ पूर्ववृत्तववृत्तान्तं विजयाधसमुद्भवम् । देवदारुर्जगादास्मै रुद्राय सकलं तदा ॥ १२८॥ " विद्याधरोदितं श्रुत्वा रुद्रोऽपि निजगावमुम् । बहुनाऽपि किमुक्तेन सर्व संपादयामि ते ॥१२९॥ ततो रुद्रं समादाय देवदारुः ससैन्यकः । विजयाधस्य मूर्धानं क्षणादविदितं ययौ ॥ १३०॥ विद्युजिह्व निहत्याशु रुद्रोऽपि समरे तदा । त्रिपुरे स्थापयामास देवदारुं समङ्गलम् ॥ १३१ ॥ ततोऽष्टौ ता महाकन्यास्तदानीं देवदारुणा । रुद्राय विधिना दत्ता परिणीता यथाक्रमम् ॥१३२॥ परिणीय ततः कन्या रूपलावण्यसंयुताः । कृतकृत्यों बभूवायं तोषपूरितमानसः ॥ १३३ ॥ ॥ रुद्रो यया यया साधं रात्रि वसति तद्दिने । तां तां निपातयत्याशु शुक्रसंतापकारणात् ॥१३४॥ यावदष्टौ महाकन्या निहत्य रतिविभ्रमात् । महाशोकभराक्रान्तस्तस्थौ रुद्रो विषादवान् ॥१३५॥ एवं स्थितस्य रुद्रस्य तदा कैलासमूर्धनि । अष्टौ तिष्ठन्ति चैत्यानां रक्षपाला दिवानिशम् ॥१३६॥ देवदारुवयस्यानामेतेषां प्रीतिकारणम् । नामानीमानि सर्वेषां भवतां कथयाम्यहम् ॥ १३७ ॥ तन्मध्ये प्रथमश्चन्द्रो यमोऽन्यो वरुणोऽपरः । सोमश्चक्रधरणामा तथान्योऽपि महीधरः॥१३८॥ • धरसेनो महासत्त्वो हरिषेणस्तथापरः । अधुनाऽहं परेणैषां पुराणि कथयामि च ॥ १३९ ॥ पूर्व नागपुरं तेषां तथैन्द्रपुरमुत्तमम् । अन्यच्छैलपुरं प्रोक्तं जयन्तीपुरमेव च ॥ १४० ॥ नागयक्षपुरं चान्यदलकोपपदं पुरम् । तथापरं च विज्ञेयं विजयोपपदं पुरम् ॥ १४१॥ अमीभिरष्टाभिः खेटेः स्वकीयं रूपराजितम् । कन्याशतं च रुद्राय वितीर्ण विधिरूपकम् ॥१४२॥ विकुर्वाणाकृतेनाशु शेफेन पृथुनाऽमुना । हतं कन्याशतं तत्र रुद्रेण रतिमिच्छता ॥ १४३॥ - कन्याशतं निहत्यायं बृहन्मेद्रप्रयोगतः । तस्थौ विषण्णचित्तोऽसौ तदा कैलासमूर्धनि ॥ १४४ ॥ अत्रान्तरेऽर्यिका काचिद्देशान्तरसमागता । एकेन मीनबन्धेन निम्नगां तारिता सका ॥ १४५॥ तच्छरीरपरामर्शात् कामभोगवशं गता । सा निदानं चकारेदं कामाकुलितमानसा ॥ १४६ ॥ मच्चित्तवल्लभस्यास्य भार्याऽन्यस्मिन् भवे सति । संदेहमन्तरेणारं भविष्यामि भुवस्तले ॥१४७॥ धीवरोऽपि चिरं भ्रान्त्वा संसारे सारवर्जिते । ज्येष्ठासमुद्भवो रुद्रः सत्यकेस्तनयोऽभवत् ॥१४८॥ • आर्यिकाऽपि निदानस्था कालं कृत्वा मृदुत्वतः । सौधर्मे धर्मसंयोगाजाता देवी बिडौजसः ॥१४९॥ वासवाख्यो नराधीशः श्रावस्तीनगरीपतिः । बभूवास्य महादेवी साधु मित्रवती परा ॥ १५० ॥ अनयोरभवत् तन्वी विद्युदादिमती सती । शिवंकरपतेर्दत्ता विद्युदंष्ट्रस्य चानया ॥१५१॥ सौधर्मनाकतश्श्युत्वा देवी पूर्वनिवेदिता । अनयो रूपसंपन्ना संजाता तनया परा ॥ १५२ ॥ 1 पफ युग्मम् , ज युगलमिदम्. 2 ज कन्या, [ कन्याः]. 3 पफ त्रिकलम् , ज त्रिकलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम्, ज युगलमिदम्. 6 पफ कृत्यकृत्यो. 7 पफ रिपुविभ्रमात्. 8 जचान्यं. १ ज बृहन्मेंद. 10 ज भार्यास्मिन्. Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566