Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 398
________________ - २३९ -९८. ४९] राजमुनिकथानकम् मत्तातोपार्जितं मूढ भोजनं हि दिने दिने । निरुत्साहो निरामर्षो भुञ्जानः किं न लज्जसे ॥ १७॥' भार्यावचनमाकर्ण्य विलक्षीभूतमानसः । तदानीं च विलक्षात्मा क्षणमेकं स तस्थिवान् ॥ १८॥ पूर्ववार्धिप्रतीरस्थं नानाजनधनान्वितम् । ययौ सचित्रसाणूरं मुण्डीरस्वामिपत्तनम् ॥ १९॥ तत्र प्रेक्षां स संप्राप्य रवावस्तमनं गते । नक्तं नृत्यं प्रकुर्वाणो मुमोच कुसुमाञ्जलिम् ॥ २०॥ नानाजनसमाकीर्णे सभामध्ये नमिस्तदा । दिव्यं श्लोकं पपाठेमं घनाघनकलस्वनः ॥ २१॥ । चिन्तनीयं खतो दीर्घ कर्तव्यं नाल्पकं सुखम् । उत्पथेन न यातव्यं न श्रोतव्यं खलोदितम् ॥ २२॥' अथ राजसुता तन्वी कुमारी यौवनान्विता । परं नरं समादाय संध्याऽनेहसि रूपिणी ॥ २३ ॥ बहुभेदानि रुच्यानि रत्नं रजतकाञ्चनम् । बवा वस्त्राञ्चले सारनानावस्तूनि सादरम् ॥ २४ ॥ स्तोकवेलां समास्थाय यास्यावः स्वपुरादरम् । नटं द्रष्टुं समायाता सुन्दरं विटसंगता ॥२५॥ चिन्तनीयं खतो दीर्घ श्लोकप्रथमपादकम् । श्रुत्वा सा तद्धनं दत्त्वा नटाय स्वगृहं ययौ ॥२६॥ काचित् तपस्विनी चैका ब्रह्मचर्यकदर्थिता। परं पुरुषमादाय गन्तुकामा मदातुरा ॥२७॥ पद्मरागमहानीलकनकादिकदम्बकम् । प्राध्वंकृत्य च वस्त्रान्ते नटं द्रष्टुं समाययौ ॥ २८॥ कर्तव्यं नाल्पकं सौख्यं द्वितीयश्लोकपादकम् । सा परिव्राजिकाऽऽकर्ण्य तोषकण्टकिताङ्गका ॥२९॥ वितीर्य तं मणिग्रन्थि शैलूषाय त्वरावती । जगाम मन्दिरं तुष्टा तदा सा बालिका निजम् ॥३०॥ तत्रैकः सार्थवाहोऽपि शुल्कं भङ्क्तवा विहाय तम् । मार्ग गच्छति वेगेन प्राप्य रत्नकदम्बकम् ॥३१॥ नटं द्रष्टुं समायातो हावभावसमन्वितम् । विलासविभ्रमोपेतं नवनाट्यरसान्वितम् ॥ ३२ ॥ उन्मार्गेण न यातव्यं श्लोकपादतृतीयकम् । आकर्ण्य सार्थवाहोत्र शैलूषेण निवेदितम् ॥ ३३॥ रत्नग्रन्थि प्रदायास्मै शुल्कं स नृपसंभवम् । सार्थमादायमार्गेण ययौ धाम स्ववाञ्छितम् ॥३४॥ तथैको राजपुत्रोऽपि निहत्य पितरं द्रुतम् । राज्यं गृहीतुकामोऽयं नटं द्रष्टुं ययौ धनी ॥ ३५॥ न श्रोतव्यं खलस्योक्तं श्लोकपादचतुर्थकम् । निशम्य राजपुत्रोऽयं संतोषस्थितमानसः ॥ ३६॥ " मणिग्रन्थिं प्रदायास्मै राजपुत्रो नटाय सः । युवराज्यपदे तस्थौ हित्वा सर्वां कुवासनाम् ॥ ३७॥ रत्नग्रन्थीः समादाय चतुरोऽपि नमिः पुनः । प्रदाय हृष्टचेतस्को जगाद कनकसृजम् ॥ ३८॥ गर्भेऽमुष्मिन् प्रिये तेऽरं भविष्यति सुतः शुभः । अमुं मुरजमध्यस्थं चितायां मोक्तुमर्हसि ॥३९॥ तद्वाक्यतस्तया बालो जातमात्रोऽपि तत्क्षणात् । कृतो मुरजमध्यस्थः श्मशाने निष्ठुराशया ॥४०॥ तत्काले तत्पुरे शीघ्र विश्वसेनो महीपतिः । जगाम पञ्चतावाप्तिं शरीरेण विवर्जितः॥४१॥ 5 अत्रान्तरे समालभ्य कुङ्कुमेन प्रसूनकैः । अर्चयित्वा प्रदायापि यूपमादाय पेशलम् ॥ ४२ ॥ तूर्याणि समतालानि कृत्वा तत्पुरतो नृपाः । मत्रिणः करकुम्भं हि मुमुचू राजहस्तिनम् ॥४३॥' आपणं गृहमारामं साणूरं निम्नगं तटम् । सरोवरं पुरं सर्वं बभ्राम स करी क्रमात् ॥४४॥ दृष्ट्वा पितृवने बालं मुरजान्तरवर्तिनम् । करस्थस्वर्णकुम्भेन स्नापयामास वारणः ॥ ४५ ॥ करेण तं समादाय पृष्ठमारोप्य वेगतः । राजहस्ती जगामायं दरवलं समुत्तमम् ॥ ४६॥ . कृत्वा सिंहासने दिव्ये मेरुकूटसमप्रमे । भूयोऽपि स्लपयामास करकुम्भेन कुञ्जरः ॥४७॥ ततो भूपतयः सर्वे पट्टबन्धनकारिणः । सस्नुमहत्तरा बालं कनत्कनककुम्भकैः ॥४८॥ विधाय दुर्मुखाभिख्यं शेषान्निक्षिप्य मस्तके । राज्यपढें बबन्धुस्ते बालस्य नरकुञ्जराः॥४९॥ 1 पफ युग्मम् , ज युगलमिदम्. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलमिदम. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ चिताया, 7 पफ युग्मम्,ज युगलमिदम्. 8 [शारीरेण]. 9 पफ युग्मम् , ज युगलमिदम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566