Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 361
________________ २०२ हरिषेणाचार्यकृते बृहत्कथाकोशे [८१. ७८यत्नं कुरु त्वमेतस्य महता गौरवेण हि । यदन्यत्र प्रयात्येष हन्म्यहं त्वां ततः क्रुधा ॥ ७८॥ जितशत्रुवचः श्रुत्वा जगौ तं' कामसुन्दरी । यथाऽऽज्ञापयसि स्वामिंस्तथैव विदधाम्यहम् ॥७९॥ ताम्बूलभोजनेनास्य पुष्पगन्धानुलेपनैः । उपकारं चकारैषा स्नानवस्त्रप्रियोदितैः ॥ ८॥ अथोत्तरपथादेशादागते रत्नपादुके । प्राभृतार्थ नरेन्द्रस्य बहुमूल्यसमन्विते ॥ ८१॥ द्वीपायनाय ते दत्ते भूभुजा जितशत्रुणा । सोऽपि शीघ्रं समादाय ययौ निजगृहं मुदा ॥ ८२॥ वामपादं समादाय स्थितः स्थापयितुं तके । तदायं कामसुन्दर्या शोभने रत्नपादुके ॥ ८३॥ न दत्ते सापि ते दिव्ये विधातुं निजपादके । निरस्ता तेन तत्पादात् तदावत्खटिका द्रुतम् ॥८४॥ कुष्ठशीर्णं तदाऽङ्गुष्ठं विलोक्य सहसामुतः । दध्यौ द्वीपायनश्चित्ते तद्विरक्तमनाश्विरम् ॥ ८५ ॥ . अनया कामसुन्दर्या कुष्ठदूषितदेहया । कामभोगान् प्रभुञ्जानो निहीनोऽहं कथं स्थितः ॥ ८६ ॥ " ततो निर्वेदमासाद्य मुनिसागरपर्वते । विमलोपपदं चन्द्रं संघयुक्तं जगाम सः ॥ ८७॥ प्रणम्येम गुरुं भक्त्या महावैराग्यसंगतः । द्वीपायनो दधौ दीक्षां तदन्ते जिनसेविताम् ॥ ८८॥ प्रतिक्रमणवेलायां स्वाध्यायानेहसि स्फुटम् । जिनस्तुतिं विधायासौ दध्यौ तामेव सुन्दरीम् ॥८९॥ कष्टं भार्या कथं त्यक्ता मया सा चित्तहारिणी । कुष्ठशीर्णतदङ्गुष्ठदोषेणैकेन निश्चितम् ॥ ९० ॥ ज्ञात्वा तच्चञ्चलं चित्तं यतीशो विषयोन्मुखम् । तद्धर्म कथयामास महाज्ञानसमन्वितः ॥ ९१॥ . 15 रमणीभिः समं मैत्री संध्यारागसमन्विता । किंपाकफलसादृश्यं तत्सुखं क्षणभङ्गुरम् ॥९२॥ यथा यथाऽबलां हृद्यां नितान्तं मन्यते नरः । तथा तथा पराभूतिं करोत्येषाऽस्य सर्वदा ॥ ९३॥ यथा यथा स्त्रियं हृष्टस्तरां कामयते नरः । तथा तथाऽस्य संसक्ता करोत्येषा विमानवम् ॥ ९४॥ श्रुत्वा तद्वचनं सोऽपि महावैराग्यसंगतः । बभूव लजितः स्वस्य तद्विरक्तमनःक्रियः ॥ ९५॥ तद्दिने विगते साऽपि गणिका नृपभीतितः । उल्लम्ब्य खं ममाराशु तदानीं कामसुन्दरी ॥ ९६ ॥ 20 अन्ये वदन्ति तत्रत्याः पूर्वप्रेमानुरागतः । मातङ्गेन मृतिं नीता सका भूपतिशासनात् ॥ ९७॥ आदाय शर्वरीमध्ये तदानीं कामसुन्दरीम् । मातङ्गोऽपि मुमोचैतां श्मशाने जीववर्जिताम् ॥ ९८॥ विकटास्थिशिराजालकुथिताखिलविग्रहा । संतिष्ठते श्मशाने सा मण्डलादिसमन्विते ॥ ९९ ॥ द्वीपायनमुनिस्तत्र स्वाध्यायादिक्रियाविधौ । एकाग्रमानसो भूत्वा ध्यायतीमां मुहुर्मुहुः ॥१०॥ पादाङ्गुष्ठो यदि स्पष्टं विनष्टः कुष्ठतोऽमुतः । मुखाक्षिभ्रूस्तनादीनां विलासः शोभनः पुनः॥१०१॥ " रामारत्नं विहायेदं सर्वस्त्रीतिलकं तराम् । अङ्गुष्ठकुष्ठदोषेण मया मुक्तं हि तत्कथम् ॥ १०२॥ ज्ञात्वाऽभिप्रायमेतस्य स्मृतभार्यागुणस्य सः । तद्गुरुः प्राह तं तत्र ज्ञाताखिलपदार्थकः ॥ १०३॥ द्वीपायनं पुरस्कृत्य तदन्तं प्राप्य तद्गुरुः । मुक्त्वाऽत्रैव जगामाशु स्तोकान्तरमसौ सुधीः ॥१०४॥ मुहूर्तमेकमास्थाय तदन्ते स मुनिस्तदा । घ्राणं पिधाय हस्तेन तस्थौ विस्मितमानसः ॥ १०५॥ यथाचार्यों व्रजत्यस्मद्धामतः क्षणमात्रतः । ततो दुर्गन्धमेतस्या निहन्म्यौषधयोगतः ॥ १०६॥ ॥ एवं चिन्तयतस्तस्य द्वीपायनमुनेस्तदा । आचार्योऽपि तदन्तं च संप्राप्तस्तदनन्तरम् ॥ १०७॥ दृष्ट्वा द्वीपायनं तत्र तदाकुलितमानसम् । जगादति वचः सत्यं तद्गुरुस्तद्धितेच्छया ॥१०८॥ त्वया राज्यमिदं हित्वा प्रणताशेषशात्रवम् । धनधान्यसमाकीर्णं यशोव्याप्तदिगन्तरम् ॥ १०९ ॥ अन्तःपुरं समस्तं च सुरदेवीसमप्रभम् । हावभावविलासेन विभ्रमेण समन्वितम् ।। ११०॥ तपो जैनेश्वरं सारं गृहीत्वा शक्रवाञ्छितम् । समस्तशेखरीभूतमनर्व्यमणिवद्भुवि ॥ १११॥ 1 पफ ता. ५ ज खटिका सडिता. : पफज चतुर्भिः कुलकम् . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566