Book Title: Bruhat Katha kosha
Author(s): Harishen Acharya, 
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 360
________________ -८1. ७७] द्वीपायनकथानकम् २०१ आदेशेन नरेन्द्रस्य जनाः खनति खातिकाम् । अतो मुनेः' सहायत्वमस्माकं भव सांप्रतम् ॥४६॥' श्रुत्वा तद्वचनं योगी जगादैतान् पुरःस्थितान् । पुरे भिक्षां विधायाशु खनिष्ये खातिकामतः॥४७॥ तन्मुक्तो नगरस्यान्तः प्रविष्टः स दिगम्बरः । दृष्टोऽयं कामसुन्दर्या स्वगृहाजिरमागतः ॥४८॥ कामसुन्दरिकां दृष्ट्वा कामाकुलितमानसः। ततो निवृत्तमानः सन् ब्राह्मणैगदितो मुनिः॥४९॥ आकर्ण्य तद्वचः साधुर्बभाणैतान् रुषं गतः । खातिकाऽर्थं च कुद्दालं समर्पयत मेऽधुना ॥ ५० ॥ तद्वाक्यतोअर्पितो विप्रैः कुद्दालमभिमत्रयन् । यावजलं खशक्त्यैष चखान धरणीमरम् ॥ ५१ ॥ खात्वा तत्र भुवं तेन मुक्त्वाऽमुं सहसा मुनिः । जगाम क्षुत्परिश्रान्तो मुनिसागरपर्वतम् ॥५२॥ गत्वा तं पर्वतं साधुनानातरुसमाकुलम् । रूपं हि कामसुन्दर्या विलिखन् व्यवतिष्ठते ॥ ५३॥ तत्खातिकाप्रहारेऽत्र दत्ते सति तपस्विना । प्रवृत्तं तजलं गन्तुं बाह्याभ्यन्तरतः पुरः ॥ ५४॥ ततो नृपगृहं व्याप्तं बाह्येनाभ्यन्तरेण च । खातिकाजलपूरेण महाप्लवविधायिना ॥ ५५ ॥ ॥ तद्वातों सकलां ज्ञात्वा तदा जनसमूहतः। समाकुलो बभूवायं जितशत्रु रेश्वरः ॥५६॥ सामन्तसचिवानां हि तलवर्गपुरोधसाम् । समस्तप्रकृतीनां च योषितोऽगुस्तदन्तिकम् ॥ ५७ ॥ असमर्था वशीकर्तुं द्वीपायनमुनि पुनः । जग्मुर्युवतयः शीघ्रं निजगेहं विचेतसः ॥ ५८॥ ततो गतप्रभा रामा मुनिना विहितास्तदा । स्वयमेव जगामाशु तदन्तं कामसुन्दरी ॥ ५९॥ हत्वाऽमुं पादघातेन वशीकृत्य स्वरूपतः । द्वीपायनमुनि निन्ये खगेहं कामसुन्दरी ।। ६०॥ . 15 मानं महाव्रतं हित्वा तदा द्वीपायनो मुनिः। कामभोगांस्तया साधं भुञ्जानो व्यवतिष्ठते ॥६१॥ अक्षोभ्योऽलङ्घनीयोऽन्यैर्गम्भीरो गुणसागरः । रामासंगेन तन्निन्द्यो बभूवासौ धरातले ॥ ६२॥ सुवर्णागसमुत्तुङ्गो धरणीसमविभ्रमः । तृणसारो बभूवायं योषासंगेन तत्क्षणात् ॥ ६३॥ साधुगन्धगजोत्तुङ्गो मन्दमन्दगतिक्रियः । स्त्रीकरेणुसमासक्तो वारिबन्धं गतः कथम् ॥ ६४ ॥ ज्ञानदर्शनचारित्रतपोब्रह्मसमन्वितः । सद्ध्याननष्टचेतस्को जातोऽसौ स्त्रीप्रसङ्गतः ॥ ६५ ॥ एवं द्वादशवर्षाणि भुञ्जानस्यास्य शं तराम् । तदानीं कामसुन्दर्या गतो मोहो हि तत्पुरे ॥६६॥ अन्यदागत्य वेगेन श्रीमदुज्जयनी पुरीम् । वेष्टयित्वा स्वसैन्येन रुद्धा तेन समन्ततः॥ ६७॥ कलकोलाहलध्वाननादिताशेषपुष्करः । तस्थौ जनाहितो धीरमुदीर्णबलवाहनः ॥ ६८॥" तत्रत्यस्य सुतस्यास्य लेखं द्वीपायनस्तदा । शुकतुण्डस्थितं कृत्वा प्रेषयामास सत्वरम् ॥ ६९ ॥ अहं द्वीपायनः पुत्र त्वत्पिता व्रतखण्डनम् । विधायावस्थितोऽत्रैव नगरे त्वद्भयाकुले ॥ ७० ॥ लेखार्थे शुकतुण्डस्थमवधार्य सुभूपतिः । महावैराग्यसंपन्नो बभूव क्षणमात्रतः ॥७१॥ श्रीमदुजयनीको विहाय जनकोक्तितः । श्रावस्ति प्रययौ तूर्णमुदीर्णबलवाहनः ॥ ७२ ॥ खसुताय निजं राज्यं दत्त्वा वैराग्यसंगतः। यशोधरगुरोः पार्थे स दीक्षामग्रहीत् तदा ॥ ७३ ॥ जितशत्रुः परिज्ञाय गतं परबलं पुरात् । द्वीपायनमतेनास्य पूजां चक्रे धनादिकम् ॥ ७४ ॥ द्वीपायनाय तोषेण सर्वाङ्गीणेन सत्वरम् । जितशत्रुर्जनाध्यक्षं महामत्रिपदं ददौ ॥ ७५॥ " यत्पुनः प्राभृतं पूर्वं बहुमूल्यं दिने दिने । जितशत्रुर्ददात्यस्मै महातोषसमन्वितः ॥ ७६ ॥ पूजयित्वा धनैर्बाढं द्वीपायनमनेकशः । जितशत्रुर्बभाणेदं वचसा कामसुन्दरीम् ॥ ७७॥ 1 [मुने सहायस्त्व॰]. 2 पफ युग्मम् , ज युगलम्. 3 [मौनं]. 4 ज मन्दं मन्द. 5 पफ वीरमुद्दीर्ण". 6पफ युग्मम् , ज युगलम्. 7 पफ द्वीपायिनः 8 पफद्वीपायिनः. 9 पफ तूर्णमुहीर्ण. 10 पफ द्वीपायनेन. वृ• को. २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566