________________
२०] भारतीय विद्या
विष्णुर्बीजमं भोजगर्भः शंभुश्चायं कारणं लोकसृष्टौ । नैनं देवा विन्दते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च ॥ २२ ॥ अस्मिन्नुदेति सविता लोकचक्षुरस्मिन्नस्तं गच्छति चांशुगर्भः । एषोऽजस्रं वर्तते कालचक्रमेतेनायं जीवते जीवलोकः ॥ २३ ॥ अस्मिन् प्राणाः प्रतिबद्धाः प्रजानामस्मिन्नस्ता रथनाभाविवाराः । अस्मिन् प्रीते शीर्णमूलाः पतन्ति प्राणाशंसाः फलमित्र भुक्तवृन्तम् ॥ २४ ॥ अस्मिन्नेकशतं निहितं मस्तकानामस्मिन् सर्वा भूतयश्चेतनश्च । महान्तमेनं पुरुषवेदवेद्यं आदित्यवर्णं तमसः परस्तात् ॥ २५ ॥ विद्वान्नज्ञश्चेतनोऽचेतनो वा स्रष्टा निरीहः स ह पुमानात्मतंत्रः । क्षराकारः सततं चाक्षरात्मा वीशीर्यन्ते वाचो युक्तयोऽस्मिन् ॥ २६ ॥ बुद्धिोद्धा बोधनीयोऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा । नासावेकं नापृथक् नाभितोभौ सर्वं चैतत्पशवो यं द्वीषन्ति ॥ २७ ॥ सर्वात्मकं सर्वगतं परीतमनादिमध्यान्तमपुण्यपापम् ।
बालं कुमारमजरं च वृद्धं य एनं विदुरमृतास्ते भवन्ति ॥ २८ ॥ नास्मिन् ज्ञाते ब्रह्मणि ब्रह्मचर्य नह्याजापः स्वस्तयो नो पवित्रम् | नाहं नान्यो नो महान्नो कनीयान्निःसामान्यो जायते निर्विशेषः ॥ २९ ॥ नैनं मत्वा शोचते नाभ्युपैति नाप्याशास्ते म्रियते जायते वा । नास्मिलोके गृह्यते नो परस्मिलोकातीतो वर्तते लोक एव ॥ ३० ॥ यस्मात्परं नापरमस्ति किंचिद् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् (किञ्चित्) । वृक्ष इव स्तब्ध दिवि तिष्ठत्येक स्तेनेदं पूर्ण पुरुषेण सर्वम् ॥ ३१ ॥ नानकल्पं पश्यतो जीवलोकं नित्यासक्तव्याधयश्चाधयश्च । यस्मिन्नेवं सर्वतः सर्वतत्त्वं दृष्टे देवे नो पुनस्तापमेति ॥ ३२ ॥
[ वर्ष ३
*
उपसंहार में सिद्धसेनका एक पद्य उद्धृत करता हूँ जिसमें उन्होंने धार्श्वपूर्ण वक्तृत्व या पाण्डित्यका उपहास किया है
-
दैवखातं च वदनं आत्मायत्तं च वाङ्मयम् ।
श्रोतारः सन्ति चोक्तस्य निर्लजः को न पण्डितः ॥
सारांश यह है, कि मुखका गड्ढा तो दैवने ही खोद रखा है, प्रयत्न यह अपने हाथ की बात है और सुननेवाले सर्वत्र सुलभ हैं; इसलिए वक्ता या पण्डित बननेके निमित्त यदि जरूरत है तो केवल निर्लज्जताकी है । एक बार धृष्ट बन कर बोलिए फिर सब कुछ सरल है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org