Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बदत्ति
तदेवं भगवता केवलज्ञाने समुत्पन्ने यथैकादश गगधराः प्रवाजितास्तथा प्रतिपादितम् । अथैषामेव गणधराणामुत्पत्तिकारणविशेषाभूतक्षेत्र-कालादीन्येकादश स्थानानि प्रतिपाद्यन्ते । तत्र चेयं द्वारगाथा||८३५॥
खेत्ते काले जम्मे गोत्तमगार-छउमत्थपरियाए । केवलिय आउ आगम परिनिव्वाणे तवे चेव ॥ २०२५ ॥ __इह क्षेत्रं जनपद-ग्राम-नगरादि यद् वक्ष्यति- 'मगहा गोबरगामे जाया तिन्नेव गोयमसगोत्ता' इत्यादि । कालस्तु नक्षत्रोपलक्षितः, यदभिधास्यति- 'जट्ठा कत्तिय साई' इत्यादि । जन्म यतस्तेषां भवति तद् माता-पितृलक्षणं कारणं वाच्यम् , 'वसुभूइ धणमित्त' इत्यादि 'पुहवी य वारुणी" इत्यादि । 'तिन्नि य गोयमगोत्ता' इत्यादिना तु गोत्रमभिधानीयम् । 'पण्णा छायालीसा' इत्यादिनाऽगारं गृहं तत्पर्यायो वक्तव्यः । 'तीसा वारस दसगं' इत्यादिना तु च्छास्थपर्यायः । 'बारस सोलस अट्ठारस वा' इत्यादिना केवलिपर्यायः । 'बाणउई चउहत्तरी' इत्यादिना सर्वायुःप्रमाणम् । 'सव्वे दुवालसंगीआ सव्वे चउदसषुत्रिणो' इत्यनेन त्वागमः । 'परिनिव्वुया गणहरा' इत्यादिना निर्वाणसमयः । 'मासं पाउवगया' इत्यादिना पुनर्निर्वाणसमयविहितं तपोऽभिधानीयमिति । इत्येवमेता अष्टादश नियुक्तिगार्थाः प्रोक्ताः । तदेवं 'उद्देसे निइसे य निग्गम' इत्याद्युपोद्धातोक्ततृतीयद्वारे यो नामादिभेदात् पोढा निगमोऽभिहितः, तत्र जिन-गणधरलक्षणद्रव्यनिर्गमभणनेनैवावसितो द्रव्यनिर्गमः ॥२०२५ ॥
इदानी क्षेत्रनिर्गमं प्रस्तुतमप्यतिक्रम्य, अन्तरङ्गत्वात् कालनिर्गममभिधित्सुर्भाष्यकारः प्रस्तावनामाह
"जिण-गणहरनिग्गमणं भणियमओ खित्तनिग्गमावसरो। कालंतरंगदरिसणहेओ तु विवज्जओ तह वि॥२०२६॥
. तदित्थं जिन-गणधरलक्षणद्रव्यस्य निर्गमनं भणितम् , अत ऊर्च 'नॉम ठवणा दविए खेत्त काले तहेव भावे य' इति निर्देशक्रमप्रामाण्यात् क्षेत्रनिर्गमस्यावसरः, परं तथापि विपर्ययः कालनिर्गमनं तावदभिधाय ततः क्षेत्रनिर्गमो भणिष्यत इत्यर्थः । किमर्थम् ? इत्याह- कालस्यान्तरङ्गत्वदर्शनहेतोः । अयमभिप्राय:- काल एव द्रव्यस्यान्तरङ्गः, क्षेत्रं तु बहिरङ्गम् , अतो द्रव्यनिर्गमानन्तरमन्तरङ्गत्वात् कालनिर्गममभिधाय पश्चात् क्षेत्रनिर्गममभिधास्यति, नोमं ठवणा दविए' इत्यादिगाथायां तु नियुक्तिकृता क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति ॥ २०२६॥
क्षेत्रं कालो जन्म गोत्रमगार-पछवास्थपर्यायः । केवलिताऽऽयुरागमः परिनिर्वाणं तपश्चैव ॥ २०२५ ॥ २ आवश्यकनियुक्ती पृ० ११७-१२०, गाथा ६५-८२ । ३ गाथा ९७३। है जिन-गणधरनिर्गमनं भणितमतः क्षेत्रनिगमावसरः । कालान्तरङ्गदर्शनहेतोस्तु विपर्ययस्तथापि ॥ ॥ २०२६॥ ५ गाथा १५३३ ।
kass
॥८३५॥
Jan Education Internati
For Personal and Price Use Only
Malww.jaineibrary.org
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202