Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 140
________________ विशेषा० ॥९३८ ॥ Jain Educator Intern आरम्भक्रियासमय एवं कार्यमुत्पद्यत इति तवाभ्युपगमः । एतच्चायुक्तम् । कुतः १ । यस्माद् घटादिकार्याणामुत्पद्यमानानां दीर्घ एव निर्वर्तनक्रियाकालो दृश्यत इति ।। २३११ ।। दृश्यतां नाम दीर्घः क्रियाकालः, परं घटादि कार्यमारम्भक्रियासमय एव शिवकादिकाले वा द्रक्ष्यत इति चेत् । तदयुक्तम् । कुतः : इत्याह- १ नारंभे च्चिय दीसइ न सिवादद्धाए दीसइ तदंते । तो नहि किरियाकाले जुत्तं कज्जं तदंतम्मि ||२३१२॥ - नारम्भक्रियासमय एवं घटादि कार्य भवद् दृश्यते, नापि शिवाद्यद्धायां- शिवक-स्थास-कोश-कुशूलादिसमयेष्वपि न दृश्यत इत्यर्थः । क तर्हि दृश्यते ? इत्याह- 'तदंते' दीर्घक्रियाकालस्यान्ते घटादिकार्य भवद् दृश्यते । तस्माद् न क्रियाकाले कार्य युक्तम्, तस्य तदानीमदर्शनात् । तदन्ते तु दीर्घक्रियाकालस्यान्ते युक्तं कार्यम्, तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेवेदम् । इति जमालपूर्वपक्ष: ।। २३१२ ॥ अत्र स्थविराः प्रतिविदधति स्म । कथम् १ इत्याह "थेराण मयं नाकयमभावओ कीरए खपुष्पं व । अह व अकथं पि कीरइ कीरउ तो खरविसाणं पि ॥२३१३॥ स्वराः श्रुद्धा गीतार्थाः साधवस्तेषां मतं- कुप्ररूपणां कुर्वन्तं जमालि त एवं प्रज्ञापयन्तीत्यर्थः- नाकृतमविद्यमानं घटादिकार्य क्रियते, असवात्, आकाशकुसुमवत् । अथाकृतमविद्यमानमपि क्रियते, क्रियतां तर्हि खरविषाणमपि, अकृतत्वाविशेषादिति ॥ २३१३|| यदुक्तम्- 'कीर निच्चं न य समत्ती' इत्यादि, तत्राह "निच्च किरियाइदोसा नणु तुल्ला असइ कहतरगा वा । पुव्वमभूयं च न ते दीसइ किं खरविसाणं पि ? ॥ २३१४ || नन्वसत्यविद्यमाने वस्तुनि करणक्रियाभ्युपगमे नित्यक्रियादिदोषाः, आदिशब्दात् क्रियाऽपरिसमाप्ति क्रियावैफल्यपरिग्रहः, आवयोस्तुल्याः समाः, यथा कृतपक्षे त्वया दत्तास्तथाऽकृतपक्षेऽप्यापतन्तीत्यर्थः । किं तुल्या एव । नेत्याह- कष्टतरका वा । विद्यमाने १ नारम्भ एव दृश्यते न शिवाद्यद्वायां दृश्यते तदन्ते । ततो नहि क्रियाकाले युक्तं कार्यं तदन्ते ॥ २३१२ ॥ २ स्थविराणां मतं नाकृतमभावतः क्रियते खपुष्पमिव । अथ वाऽकृतमपि क्रियते क्रियतां ततः खरविषाणमपि ॥ २३१३ ॥ ३ गाथा २३१० ॥ ४ नित्यक्रियादिदोषा ननु तुल्या असति कष्टतरका वा पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि १ ।। २३१४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९३८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202