Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 185
________________ विशेषा ॥९८३॥ जातमुपतिष्ठते तदा तन्निवारणार्यमेतद् मस्तकस्योपरि भ्रमणीयम् । ततश्चैन्द्रीणामप्यजेयो भविष्यास, किमुत मनुष्यमात्रस्य तस्येति । ततश्च गतो राजसभा रोहगुप्तः। प्रोक्तं च तत्र तेन-'किमेष द्रुमकः परिव्राजको जानाति ?, करोत्वयमेव यदृक्षया पूर्वपक्षम् , येनाहं निराकरोमि। ततः परिव्राजकेन चिन्तितम्- निपुणाः खल्वमी भवन्ति, तदमीषामेव संमतं पक्षं परिगृह्णामि, येन निराकर्तुं न शक्नोति । विचिन्त्य चेदमभ्यधायि-'इह जीवाश्चाजीवाश्चेति द्वावेव राशी, तथैवोपलभ्यमानत्वात् , शुभा-ऽशुभादिराशिद्वयवत्' इत्यादि । ततो रोहगुप्तेन तबुद्धिपरिभवनाथ स्वसंमतोऽप्ययं पक्षो निराकृतः। कथम् ? इति चेत् । उच्यते- असिद्धोऽयं हेतुः, अन्यथोपलम्भात् , जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात् । तत्र जीवा नरक-तिर्यगादयः, अजीवास्तु परमाणु-घटादयः, नोजीवास्तु गृहकोकिलापुच्छादया। ततो जीवा-ऽजीव-नोजीवरूपास्त्रयो राशयः, तथैवोपलभ्यमानत्वात् , अधम-मध्यमो-त्तमादिराशिवयवत् , इत्यादियुक्तिभिर्निप्रश्नव्याकरणः कृत्वा जितः परिव्राजको रोहगुप्तेन । ततोऽसौ क्रुद्धो वृश्चिकविद्यया रोहगुप्तविनाशार्थ वृश्चिकान् मुश्चति । ततो रोहगुप्तस्तत्यतिपक्षभूतमयूरीविद्यया मयूरान् मुश्चति । तैश्च वृश्चिकेषु हतेषु परिव्राजकः सर्पान् मुञ्चति । इतरस्तत्मतिघातार्थ नकुलान् विसृजति । एवं मूषिकाणां विडालान् , मृगीणां व्याघ्रान् , शूकराणां सिंहान् , काकानामुलूकान् , पोतकीनामुलाक्कान् मुश्चति । ततो गर्दभी मुक्ता । तां चागच्छन्ती दृष्ट्रा रोहगुप्तेन रजोहरणं मस्तकस्योपरि भ्रमयित्वा तेनैव रजोहरणेन ताडिता सती परिव्राजकस्योपरि मूत्र-पुरीपोत्सर्ग कृत्वा गतासौ । ततः सभापतिना, सभ्यैः, समस्त लोकेन च निन्द्यमानो नगराद् निर्वासितः परिव्राजकः ॥२४५४॥ इतः परं यदभूत तद् भाष्यकार: माह'जेऊण पोट्टसालं छलूओ भणइ गुरुमूलमागंतुं। वायम्मि मए विजिओ सुणह जहा सो सहामज्झे ॥२४५५।। रासिद्गगहियपक्खो तइयं नोजीवरासिमादाय । गिहकोकिलाइपुच्छच्छेओदाहरणओऽभिहिए ॥२४५६।। भणइ गुरू सुठु कयं किं पुण जेऊण कीस नाभिहियं । अयमवसिद्धतो णे तइओ नोजीवरासि त्ति ॥२४५७॥ई एवं गए वि गंतुं परिसामज्झम्मि भणसु नायं णे । सिद्धंतो किंतु मए बुद्धिं परिभूय सो समिओ ॥ २४५८ ॥ 1 जित्वा पोशालं पडुलूको भणति गुरुमूलमागत्य । वादे मया विजितः शृणुत यथा स सभामध्ये ॥ २४५५ ।। राशिद्विकगृहीतपक्षस्तृतीयं नोजीवराशिमादाय । गृहकोकिलादिपुग्छच्छेदोदाहरणतोऽभिहिते ॥ २४५६ ।। भणति गुरुः सुष्टु कृतं किं पुनर्जित्वा कस्माद् नाभिहितम् । अयमपसिद्धान्तो नस्तृतीयो नोजीवराशिरिति ॥ २४५७॥ एवं गतेऽपि गत्वा परिषन्मध्ये भण नाऽयं नः । सिद्धान्तः किन्तु मया बुद्धिं परिभूय स शमितः ॥ २५५८ ॥ ॥९८३॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202