Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥९८८॥
'देहरहियं न गिण्हइ निरतिसओ नातिसुहुमदेहं व । न य से होइ विबाहा जीवस्स भवन्तराले व्व ॥४६६॥
देहाभावे जीवलक्षणानामभावाद् देहरहितं मुक्तात्मानं छिन्नपुच्छाद्यन्तरालवर्तिनं वा जीवं निरतिशयः केवलज्ञानायतिशयरहितो जन्तुर्न गृह्णाति । तथा, अतिसूक्ष्मो देहो यस्य तमतिसूक्ष्मदेहं निगोदादिजीवं कार्मणकाययोगिनं वा जन्तुं नासौ गृह्णाति । न च 'से' तस्य जीवस्यान्तरालवर्तिषु प्रदेशेष्वनन्तरदर्शितसिद्धान्तसूत्रोक्तयुक्त्या कुन्ता-ऽसि-सेल्लादिशस्त्रैरनि-जलादिभिर्वा विवाधा पीडा काचिद् भवति, भवान्तराले कार्मणशरीरवर्तिजीवप्रदेशवदिति ॥ २४६६ ॥
ननु गृहकोकिलादिजीवस्य च्छिन्नत्वात् पुच्छादिकं खण्डं नष्टम् , ततश्च तत् तस्मात् पृथग्भूतत्वाद् नोजीवः कस्माद् नोच्यते, यथा घटाच्छिन्नत्वात् पृथग्भूतं रथ्यापतितं घटखण्डं घटकदेशत्वाद् नोघटः । तदयुक्तम् । कुतः ? इत्याह
देव्वामुत्तत्ताकयभावादविकारदरिसणाओ य । अविणासकारणाहि य नभसो व्व न खंडसो नासो ॥२४६७॥
खण्डशो जीवस्य नाशो न भवतीति प्रतिज्ञा, अमूर्तद्रव्यत्वात् , अकृतकभावात्- अकृतकत्वादित्यर्थः, तथा, घटादेः कपालादिवद् विकारदर्शनाभावात् , अविनाशकारणत्वाचः विनाशकारणानामग्रि-शस्त्रादीनामभावाचेत्यर्थ इत्येते हेतवः । सर्वेषु 'नभस इव' इति दृष्टान्त इति ॥ २४६७ ॥
खण्डशो नाशे च जीवस्य दोषानाहनासे य सव्वनासो जीवस्स नासो य जिणमयच्चाओ। तत्तो य अणिमुक्खो दिक्खावफल्लदोसा य ॥२४६८॥
शरच्छेदादिना जीवप्रदेशस्य नाशे चेष्यमाणे क्रमशः सर्वनाशोऽपि कदाचित् तस्य भवेत् ; तथाहि- यत् खण्डशो नश्यति तस्य सर्वनाशो दृष्टः, यथा घटादेः, तथा च त्वयेष्यते जीवः, ततः सर्वनाशस्तस्य प्राप्नोति । भवत्वेतदपि, किं नः सूयते ? इति चेत् । तदयुक्तम् । कुतः ? इत्याह- 'नासो येत्यादि' स च जीवस्य सर्वनाशो न युक्तः, यस्माज्जिनमतत्यागहेतुत्वाजिनमतत्यागो
देहरहितं न गृह्णाति निरतिशयो नातिसूक्ष्मदेहमिव । न च तस्य भवति विवाधा जीवस्य भवान्तराल इव ॥ २४१५॥ २ व्यामूर्तत्वादकृतभावाव विकारदर्शनाच्च । अविनाशकारणाच्च नभस इब न खण्डशो नाशः ॥ २४६७ ॥ ३ नाशे च सर्वनाशो जीवस्य नाशश्न जिनमतत्यागः । ततश्चानिर्मोक्षो दीक्षावैफल्यदोषाश्च ॥ २४६८ ॥
९८८॥
For Personal
use only
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202