Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 196
________________ 5 BASIC STRamete विशेषा बृहद्वति।। ॥९९४॥ प्रकटार्था एवैताः, नवरं 'बहुजणनाओऽवसिउ त्ति' बहुजनस्य ज्ञातो विदितोऽवसितो मया जितः सन्नग्राह्यवचनः सर्वस्यापि भविष्यति । 'तो बलसिरिनिवपुरउत्ति' ततो बलश्रीनाम्नो राज्ञः पुरत इत्यर्थः । 'नाओवणीयमग्गाणं नि' नीयते संवित्तिं प्राप्यते वस्त्वनेन इति न्यायः प्रस्तुतार्थसाधक प्रमाणं, येनोपन्यस्तेन सतोपनीतो ढौकितः प्रसङ्गेनागतः सकलस्यापि तर्कस्य मार्गो येषां ते तथा तेषां न्यायोपनीतमार्गाणां रोहगुप्त-श्रीगुप्तसूरीणामिति ॥ २४८१ ॥ २४८२ ॥ २४८३ ॥२४८४ ॥ २४८५ ॥ ततो द्वितीयदिने किमभूत् ? इत्याह'बीयदिणे बेइ गुरू नरिंद ! जं मेइणीए सब्भूयं । तं कृत्तियावणे सव्वमत्थि सव्वप्पतीयमियं ॥ २४८६ ॥ तं कुत्तियावणसुरो नोजीवं देहि जइ न सो नत्थि। अहभणइ नत्थि तो नत्थि किंव हेउप्पबंधेणं ॥२४८७॥ तं मग्गिजउ मुल्लेण सव्ववत्थूण किंत्थ कालेण,।इय होउ त्ति पवण्णे नरिंद-पइवाइ-परिसाहिं ॥ २४८८ ॥ सिरिगुत्तेणं छलुगो छम्मासा विकट्टिऊण वाए जिओ।अहरण कुत्तिआवण चोयालसएण पुच्छाण॥२४८९॥ व्याख्या-द्वितीयदिने ब्रवीति गुरुः श्रीगुप्तसूरिः-नरेन्द्र ! पृथिवीपते !- इह मेदिन्यां पृथिव्यां यत् किमपि सद्भूतं विद्यमान वस्तु तत् सर्वमपि कुत्रिकापणेऽस्तीति सर्वजनस्य भवतां च प्रतीतमेवेदम् । तत्र कूनां स्वर्ग-पाताल-मत्यभूमीनां त्रिकं कुत्रिकं तात्स्थ्यात् तद्यपदेश इति कृत्वा तत्स्थलोका अपि कुत्रिकमुच्यते, कुत्रिकमापणयति व्यवहरति यत्र हटेऽसौ कुत्रिकापणः । अथवा, धातु-जीव-मूलP लक्षणेभ्यस्त्रिभ्यो जातं त्रिजं सर्वमपि वस्त्वित्यर्थः, कौ पृथिव्यां त्रिजमापणयति व्यवहरति यत्र हट्टे स कुत्रिजापणः। अस्मिंश्च कुत्रि कापणे वणिजः कस्यापि मन्त्राधाराधितः सिद्धो व्यन्तरसुरः क्रायकजनसमीहितं सर्वमपि वस्तु कुतोऽप्यानीय संपादयति । तन्मूल्यद्रव्यं तु वणिगेव गृह्णाति । अन्ये तु वदन्ति- 'वणिग्रहिताः सुराधिष्ठिता एव त आपणा भवन्ति । ततो मूल्यद्रव्यमपि स एव व्यन्तरसुरः . द्वितीयदिने ब्रवीति गुरुर्नरेन्द्र ! यद् मेदिन्यां सद्भूतम् । तत् कुत्रिकापणे सर्वमस्ति सर्वप्रतीतमिदम् ॥ २४८६ ॥ तत् कुत्रिकापणसुरो नोजीव देहि यदि न स नास्ति । अथ भणति नास्ति ततो नास्ति किं वा हेतु-प्रबन्धेन ? ॥ २४८७॥ तदू मार्यन्तां मूल्येन सर्ववस्तूनि किमत्र कालेन । एवं भवत्विति प्रपन्ने नरेन्द्र प्रतिवादि-परिषानः ॥ २४८८ ॥ श्रीगुप्तेन पडुलूकः षड् मासान् विकृष्य वादे जितः । उदाहरणानां कुत्रिकापणे चतुश्चत्वारिंशता शतेन पृच्छानाम् ॥ २४८९ ॥ २ क.ग. 'मूल जीवल' ॥९९४॥ Jain Educationa.Inter For Personal and Price Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202