Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥९९६ ॥
Jain Education International
इह द्रव्य-गुण-कर्म- सामान्य- विशेष - समवायलक्षणाः षड् मूलपदार्थास्तेन षडुलूकेन कल्पिताः । तत्र द्रव्यं नवधा । कथम् ? इत्याह- 'भू-जलेत्यादि' भूमिः, जलम्, ज्वलनः, अनिलः, नभः, कालः, दिकू, आत्मा, मनवेत्येतानि नव द्रव्याणि भण्यन्ते । गुणाः सप्तदश भवन्ति, तथा रूपं रसः, गन्धः, स्पर्शः, संख्या, परिमाणम्, महत्त्वम्, पृथक्त्वम्, संयोगः, विभागः, परा-परत्वे, बुद्धिः, सुखम्, दुःखम्, इच्छा, द्वेषः, प्रयत्नश्चेति । इतः कर्म तत् पुनः पञ्चविधम्, तद्यथा- उत्क्षेपणम्, अवक्षेपणम्, आकुश्चनम्, प्रसारणम्, गमनमिति + सामान्यं त्रिविधम्, तद्यथा- सत्ता, सामान्यम्, सामान्यविशेषश्चेति । तत्र द्रव्य-गुण-कर्मलक्षणेषु त्रिषु पंदार्थेषु सद्बुद्धिहेतुः सत्ता, सामान्यं द्रव्यत्व-गुणत्वादि, सामान्यविशेषस्तु पृथिवीत्व - जलस्व- कृष्णत्व-नीलत्वाद्यवान्तरसामान्यरूप इति । अन्ये स्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति - अविकल्पं महासामान्यम्, त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता, सामान्यविशेषो द्रव्यत्वादि । महासामान्य-सत्तयोविंशेव्यत्यय इत्यन्ये । द्रव्य-गुण-कर्मपदार्थत्रय सद्बुद्धिहेतुः सामान्यम्, अविकल्पा सत्तेत्यर्थः । सामान्यविशेषस्तु द्रव्यत्वादिरूप एव । इत्यलं प्रसङ्गेनेति । विशेषश्चान्त्यः । समवायपदार्थचेति ।
तदेवमेते द्रव्यादयः षट् पदार्थाः पट्त्रिंशत्प्रभेदाः- नवानां द्रव्याणां सप्तदशानां गुणानां पञ्चानां कर्मणां त्रयाणां सामान्यानाम्, विशेष समवाययोश्च मीलने षट्त्रिंशद् विकल्पा भवन्तीत्यर्थः । एते च सर्वे प्रकृत्या, अकारेण, नोकारेण, उभयनिषेध यथेत्येतैवतुर्भिः प्रकारैर्गुणिताः सन्तो यच्चतुश्चत्वारिंशं शतं पृच्छानां भवति तत् पृष्टः कुत्रिकापणदेवः । इदमत्र हृदयम् - नरहितं शुद्धं पदमिह प्रकृतिरुच्यते, तया शुद्धपदरूपया प्रकृत्या पृथिव्यादयः पदार्थाः पृच्छयन्ते, तथथा - 'पृथिवीं देहि' इत्यादि । तथा, लुप्तस्य नञः स्थाने योऽकारस्तेन चाकारेण संयुक्तया प्रकृत्या पृच्छा विधीयते, यथा 'अपृथिवीं देहि' इत्यादि । तथा नोकारेण संयुक्तया प्रकृत्या पृच्छा यथा- 'नो पृथ्वी देहि' इत्यादि । तथा, नोकाराऽकारलक्षणं यदुभयं तेन योऽसौ प्रकृत्या निषेधस्तस्माच्च पृष्टः सुरो यथा- 'नोअपृथिवीं देहि' इत्यादि । एवं जलादिष्वपि प्रत्येकमेते प्रकृत्य-कार- नोकारो-भयनिषेधलक्षणाश्चत्वारः पृच्छाप्रकारा वक्तव्या इति । एतदभिप्रायत्रता प्रोक्तम्— 'सब्वे गुणिआ' इति । आह- ननु 'पृथिवीं देहि' इत्यादिका याचना एवं कथं पृच्छाः प्रोच्यन्ते ? | सत्यम्, किन्तु 'पृथिवीं देहि' इत्यादियाचनाद्वारेण पृथिव्याद्यस्तित्वमेवासौ देवः पृच्छयते, 'नोजीवं याचितो यद्यसौ जीवा-ऽजीवव्यतिरिक्तं तं दास्यति तदाऽयमस्ति नान्यथा इत्येवमेव प्रतिज्ञातत्वात् । ततो याचना अध्येतास्तस्वतः पृच्छा एवेत्यदोषः || २४९० ।। २४९१ ।। २४९२ ।। २४९३ ॥ २४९४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥९९६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202