Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 200
________________ विशेषा० ॥९९८ अननस कला परिहारार्थमाह- 'लेट् ठुदलं ति व देसो जइ त्ति' यदि तु भोः पर ! त्वं मन्यसे- योऽयं लेष्टोदेशः स दलं लेष्टोरेव खण्डमात्रम् , ततः समानजातिलक्षणत्वेऽपि नासौ पृथ्वीति । अत्र परिहारमाह- 'तो लेठू वि भूदेसो त्ति' । ततस्तर्हि 'पुढवी त्ति देइ लेट्टुं देसो विबृहद्वत्तिः । इत्यादौ यः पूर्व लेष्टुः पृथ्वीत्वेनोक्तः सोऽपि भुवः पृथिव्या देश एव । ततस्त्वदभिप्रायेण सोऽपि पृथ्वीदलरूपत्वाद् न पृथ्वी, लेष्टुदेशवदिति ॥ २४९६ ॥ २४९७ ॥ अस्त्वेवमिति चेत् । तदयुक्तम् । कुतः ? इत्याह 'देहि भुवं तो भणिए सव्वाणेया न यावि सा सव्वा । सक्का सक्केण वि याणेउं किमुयावसेसेणं ? ॥२४९८॥ यदि लेष्टुर्न पृथ्वी, ततस्तर्हि 'भुवं देहि' इत्युक्ते सर्वापि संपूर्णा साऽऽनेया प्रसज्यते, न च सा सर्वा शक्रेणाप्यानेतुं शक्या, किमुतावशेषेण कुत्रिकापणदेवादिमात्रेण ? इति । तर्हि किमत्र तत्त्वम् ? इति भवन्त एव कथयन्तु ? इति ।। २४९८ ॥ इत्थं प्रेरके उपसन्ने दृष्टान्तोपन्यासद्वारेण सूरिः प्रस्तुतार्थनिर्णयमाहजेह घडमाणय भणिए न हि सव्वाणयणसंभवो किंतु । देसाइविसिह चिय तमत्थवसओ समप्पेइ ॥२४९९॥ पुढवि त्ति तहा भणिए तदेगदेसे वि पगरणवसाओ। लेठुम्मि जायइ मई जहा तहा लेठ्ठदेसे वि ॥२५००॥ यथा सामान्येन 'घटमानय' 'पदमानय' इत्युक्तेऽपि न खलु सर्वस्यापि घटस्य सामान्यतयैवानयनसंभवोऽस्ति, किन्तु सर्वस्यानेतुमशक्यत्वात् प्रायः सर्वेण प्रयोजनाभावाच्च, अर्थवशात् सामर्थ्यत एव नियतदेशकालाधवच्छिन्नं विशिष्टमेव कश्चिद् घटमानीय १ देहि भुवं ततो भणिते सानया न चापि सा सर्वा । शक्या शक्रेणापि चानेतुं किमुतावशेषेण ॥ २४९८ ॥ २ यथा घटमानय भणिते न हि सर्वानयनसंभवः किन्तु । देशादिविशिष्टमेव तमर्थवशतः समर्पयति ॥ २४९९ ॥ पृथिवीति तथा भणिते तदेकदेशेऽपि प्रकरणवशात् । लेष्ट्री जायते मतिर्यथा तथा लेष्टुदेशेऽपि ॥ २५०० ॥ ॥९९८॥ Jan Edu Interna For Personal and Price Use Only

Loading...

Page Navigation
1 ... 198 199 200 201 202