Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥९९७॥
rate
कथं पुनरेताः कुत्रिकापणसुरस्य पृच्छाः कृताः ? इत्याशङ्कय दिङ्मात्रोपदर्शनार्थमायं पृथिवीलक्षणं भेदमधिकृत्याहपुढवि त्ति देइ लेढुं देसो वि समाणजाइ-लिंगो त्ति | पुढवि त्ति सोऽपुढवीं देहि त्ति देइ तोयाइं ॥२४९५॥
पृथिवीं याचितः कुत्रिकापणसुरो लेष्टुं ददाति । आह- अप्रस्तुतमिदम् , अन्यस्मिन् याचितेऽन्यस्य प्रदानात् । नैवम् । कुतः ? इत्याह- 'देसो वीत्यादि देशोऽपि लेष्टुलक्षणः 'पुढवि त्ति' पृथिव्येव मन्तव्या, पृथिवीत्वलक्षणाया जातेः स्त्रीलिङ्गलक्षणस्य लिङ्गस्य च समानत्वात् । इह यत्र पृथिवीत्वजातिः स्त्रीलिङ्गं च वर्तते तत् 'पृथिवी' इति व्यवहर्तव्यम् , यथा रत्नप्रभादि, तथा च लेष्टुः, तस्मात् पृथिवीति । 'अपृथिवीं देहि' इत्येवं याचितोऽसौ देवस्तोयादि प्रयच्छति ॥ २४९५॥
नोपृथिवीं याचितस्तर्हि किं ददाति ? इत्याहदेसपडिसेहपक्खे नोपुढवीं देइ लेठ्ठदेसं सो । लेठ्ठद्दव्वावेक्खो कीरइ देसोवयारो से ॥ २४९६ ॥ इहरा पुढवि च्चिय सो लेट्छु व्व समाणजाइलक्खणओ। लेठ्ठदलं ति व देसो जइ तो लेठू वि भूदेसो॥२४९७॥
नोशब्दस्य देशप्रतिषेधपक्षे नोपृथिवीं याचितोऽनन्तरमेव समस्तपृथीत्वेनोपचरितस्य लेष्टोरेव देशं तत्खण्डरूपं ददात्यसौ देवः। आह- ननु देशनिषेधपक्षे नोपृथ्वी तद्देश एवं गृह्यते, यस्तु लेष्टुदेशः स पृथ्वीदेशस्यापि देश एव, न तु पृथ्वीदेशः, तत् कथं नोपृथ्वीं याचितस्तं ददाति ? इत्याह- 'लेठ्ठदव्वेत्यादि' लेष्टुद्रव्यापेक्षः 'से' तस्य लेष्टुदेशस्य देशोपचारः क्रियते । इदमुक्तं भवति- लेष्टौ तावदनन्तरोक्तयुक्तेः संपूर्णपृथ्वीद्रव्यत्वमारोपितम् , ततो लेष्टुलक्षणपृथ्वीद्रव्यापेक्षया तद्देशस्यापि पृथ्वीदेशत्वमुपचर्यते, इतरथाऽन्यथा । पुनः परमार्थतो लेष्टुवत् समानजात्यादिलक्षणत्वादिति पूर्वोक्तहेतोः सोऽपि लेष्टुदेशः पृथ्व्येव मन्तव्या। अथ पराभिप्रायमाविष्कृत्य
11९९७॥
, पृथिवीति ददाति लेष्टुं देशोऽपि समानजाति-लिङ्ग इति । पृथिवीति सोऽपृथिवीं देहीति ददाति तोयादि ॥ २४९५ ॥ २ देशप्रतिषेधपक्षे नोपृथिवीं ददाति लेष्टुदेशं सः । लेष्टुद्रव्यापेक्षः क्रियते देशोपचारतस्तस्य ॥ २४९६ ।।
इतरथा पृथिव्येव स लेष्टुरिव समानजातिलक्षणतः । लेष्टुदलमिति वा देशो यदि ततो लेष्टुरपि भूदेशः ॥ २४९७ ॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 197 198 199 200 201 202