Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 197
________________ JOD विशेषा० ॥९९५॥ स्वीकरोति । एते च कुत्रिकापणाः प्रतिनियतेष्वेवोजयिनी-भृगुकरछनगरादिस्थानेषु कापि कियन्तोऽप्यासन् , इत्यागमेऽभिहितम् । ततस्तस्मात् कुत्रिकापणसुरो यदि मूल्येन याचितः सन् नोजीवं जीवाजीवव्यतिरिक्तवस्तुरूपं कमपि ददाति तदाऽसौ न नास्त्यपि तु निर्विवादमस्त्येव । अथायमेव वदति- नास्ति तव्यतिरिक्तः कोऽपि नोजीवस्तदा नास्त्येवासौ, किं तन्नास्तित्वसाधनाय युष्मद्राज्यप्रयोजनक्षतिकारिणा क्लेशफलेन हेतुपबन्धोपन्यासेन ? इति । तत् तस्माद् याच्यन्ता मूल्येन सर्ववस्तूनि कुत्रिकापणसुरः, किमत्र कालेन कालविलम्बन ? इत्यर्थः । एवं गुरुभिरुक्त बलश्रीनरेन्द्रेण प्रतिवादिना रोहगुप्तेन सभ्यपर्षदा च युक्तियुक्तत्वात् 'एवं भवतु' इति प्रतिपन्ने श्रीगुप्ताचार्येण षडुलूको रोहगुप्तः पूर्व षड् मासान् विक्रष्यातिवाह्य वादे जितो निगृहीतः। केन ? इत्याह-कुत्रिकापणे यानि वक्ष्यमाणभू-जल-ज्वलनाद्याहरणान्युदाहरणानि तद्विषयपृच्छानां चतुश्चत्वारिंशेन शतेन, प्राकृतशैल्या छन्दोबन्धानुलोम्यादापत्वादत्र व्यत्ययेन निर्देश इति ॥२४८६ ॥२४८७ ॥२४८८ ॥ २४८९ ॥ कथं पुनरिदं चतुश्चत्वारिंशं शतं पृच्छानां भवति ? इत्याह-- भू-जल-जलणा-निल-नह-काल-दिसा-ऽऽया मणो यदव्वाई। भण्णंति नवेयाइं सत्तरस गुणा इमे अण्णे॥२४९०॥ रूव-रस गंध-फासा संखा परिमाणमहमह-पुहुत्तं च । संजोग-विभाग-परा-ऽपरत्तबुद्धी सुहं दुक्खं ॥२४९१॥ इच्छा दोस-पयत्ता एत्तो कम्मं तयं च पंचविहं । उक्खेवण-वक्खेवण-पसारणाऽऽकुंचणं गमणं ॥ २४९२॥ सत्ता सामण्णं पिय सामण्णविसेसया विसेसोय। समवाओ य पयत्था छ छत्तीसप्पभेयाय ॥ २४९३ ॥ पगईए अगारेण य नोगारोभयनिसहओ सव्वे । गुणिआ ओयालसयं पुच्छाणं पुच्छिओ देवो ॥२४९४॥ भू-जल-ज्वलना-ऽनिल-नमः-काल-दिगा-5ऽत्मानो मनश्च द्रव्याणि । भण्यन्ते नवैतानि सप्तदश गुणा इमेऽन्ये ।।२४९०॥ रूप-रसभान्ध-स्पर्शाः संख्या परिमाणमय महत्-पृथक्त्वे च । संयोग-विभाग-परा-उपरत्व-बुद्धयः सुखं दुःखम् ॥ २४९१ ॥ इच्छा द्वेष प्रयत्नावितः कर्म तच्च पञ्चविधम् । उत्क्षेपणाऽवक्षेपण-प्रसारणा ऽऽकुचनानि गमनम् ॥ २४९२ ॥ सत्ता सामान्यमपि च सामान्यविशेषका विशषश्च । समवायश्च पदार्थाः षट् षट्त्रिंशस्त्रभेदाश्च ॥ २४९३ ॥ प्रकृत्याऽकारेण च नोकारोभयनिषेधतः सर्वे । गुणितास्त्वेकचत्वारिंशता शतं पृच्छानां पृष्टो देवः ॥ २४९४ ॥ ९९५॥ Jan Education Internal For Personal and Price Use Only

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202