Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 194
________________ विशेषा० ॥९९२॥ Jain Education Inter 'जीवेय से पएसे जीवपएसे एव नोजीवो । इच्छइ न य जीवदलं तुमं व गिहकोलियापुच्छं || २४७७|| न य रासिभेयमिच्छइ तुमं व नोजीवमिच्छमाणो वि । अन्नो वि नओ नेच्छइ जीवाजीवाहियं किं पि ॥ २४७८ ॥ बृहद्वृत्तिः । व्याख्या - इह “जीवे य से पएसे य से सपएसे नोजीवे" इत्यत्रानुयोगद्वारोक्तमुत्रालापके समभिरूढनयोऽपि नोजीवमिति नेच्छतीति संबन्ध:- नोजवित्वेन नेच्छतीत्यर्थः । कं कर्मतापन्नम् ? । देशम् । कथंभूतम् । जीवादन्यं जीवाद् व्यतिरिक्तं देशं नोजीवं समभिरूढनयोऽपि नेच्छति किन्त्वव्यतिरिक्तमेव तं तस्मादिच्छतीत्यर्थः । कुत एतद् विज्ञायते १ इत्याह- येन कारणेन देश - देशिनोः | कर्मधारय लक्षणं समानाधिकरणमेव समासमसौ समभिरूढनयो ब्रवीत्यभ्युपगच्छति, न पुनर्नैगमादिरिव तत्पुरुषमित्यर्थः । समानाधिकरणसमासश्च नीलोत्पलादीनामिव विशेषण विशेष्याणामभेद एव भवति । अतो ज्ञायते जीवादनन्यरूपमेव देशं नोजीवमिच्छति समभिरूढ इति, एवं कथं तृतीयराशिः स्यात् ? इति । तदेव समभिरूढाभिमतं समानाधिकरणसमासं दर्शयति- 'जीवे य से इत्यादि । ferral प्रदेश जीवप्रदेश: स एव 'नोजीवो त्ति' स एव जीवादव्यतिरिक्तो जीवप्रदेशो नोजीव इत्येवमिच्छति समभिरूढनयः, न पुनर्जीवदलं जीवात् पृथग्भूतं तत्खण्डं नोजीवमिच्छत्यसौ, यथा गृहकोकिलादीनां पुच्छादिखण्डं नोजीवं त्वमिच्छसीति । अपि च, नोजीवमिच्छपि समभिरूढनयो यथा त्वं तथा नोजीवराशेजवाजीवराशिद्वयाद् भेदं नेच्छति, किन्तु जीवाजीव लक्षणं राशिद्वयमेवेच्छति, स्त्रैवान्तर्भावात् । तथाऽन्योऽपि नैगमादिर्नयो जीवा जीवेभ्योऽधिकं किमपि नोजीववस्तु नेच्छत्येव । ततस्त्वदीप एवायं नूतनः कश्चिद् मार्ग इति ।। २४७६ ।। २४७७ ।। २४७८ ॥ तथाऽभ्युपगम्यापि सूरिराह इच्छउ व समभिरूढो देसं नोजीवमेगनइयं तु । मिच्छत्तं सम्मत्तं सव्वनयमयोवरोहेणं ॥ २४७९॥ 2 जीवश्व स प्रदेशो जीवप्रदेश एव नोजीवः । इच्छति न च जीवदलं त्वमिव गृहकोकिला पुच्छम् ॥ २४७७ || न च राशिभेदमिच्छति त्वमिव नोजीवमिच्छन्नपि । अन्योऽपि नयो नेच्छति जीवाजीवाधिकं किमपि ॥ २४७८ ॥ २ जीवन स प्रदेशश्व तस्य स्वप्रदेशो नोजीवः । ३ इच्छतु वा समभिरूढो देशं नोजीवमैकनयिकं तु । मिध्यात्वं सम्यक्त्वं सर्वनयमतोपरोधेन ॥ २४७९ ॥ For Personal and Private Use Only ९९२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202