Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदत्तिः ।
विशेषा.
न किश्चिद मम विनश्यतीति चेत् । नैवम् । कुतः ? इत्याह- ‘एवं पीत्यादि' एवमप्यभ्युपगम्यमाने ये भवता त्रय एव राशय इष्यन्ते ते न घटन्ते, किन्तु चत्वारो राशयः संप्रसजन्ति, तद्यथा- जीवाः, तथाऽजीवाः, नोजीवाः, नोअजीवाश्चेति ॥२४७२॥२४७३॥
अत्र यः परस्य परिहारस्तस्य स्वपक्षेऽपि समानतां दिदर्शयिषुः मूरिराहअह ते अजीवदेसो अजीवसामण्णजाइ-लिङ्गो त्ति। भिन्नो वि अजीवो च्चिय न जीवदेसो वि किं जीवो ॥२४७४॥
अथ ते तवाजीवस्य जीवस्कन्धादेर्देश एकदेशो भिन्नोऽपि स्कन्धात् पृथग्भूतोऽप्यजीव एव न तु नोअजीवः । कुतः ? इत्याहअजीवन सामान्ये जाति-लिङ्गे यस्यासावजीवसामान्यजाति-लिङ्ग इति कृत्वा । तत्राजीवत्वं जातिः, पुंलिङ्गलक्षणं च लिङ्गम् । एतच्च द्वयमप्यजीव-तदेशयोः सामान्यमेव, ततस्तद्देशोऽप्यजीव एव । हन्त ! यद्येवम् , तर्हि जीवदेशोऽपि किमिति जीवो नेष्यते, तस्यापि जीवेन समानजाति-लिङ्गत्वादिति ॥ २४७४ ॥
गाथाचतुर्थपादोक्तमेवार्थ प्रमाणेन द्रढयन्नाहछिन्नगिहकोलिया विहु जीवो तल्लक्खणेहिं सयलो व्व । अह देसो त्ति न जीवो अजीवदेसो तिनोऽजीवो ॥२४७५॥
छिन्नग्रहकोकिलापि-छिन्नः पुच्छादिको गृहकोकिलादिजीवावयवोऽपीत्यर्थः । किम् ? इत्याह- जीवः, इति प्रतिज्ञा । हेतुमाह'तल्लक्खणेहिं ति' तल्लक्षणैर्हेतुभूतैः- स्फुरणादितल्लक्षणयुक्तत्वादित्यर्थः। 'सयलो व त्ति' यथा सकला परिपूर्णोऽच्छिन्नो गृहकोकिलादिजीव इत्यर्थः, एष दृष्टान्तः । अथ गृहकोकिलादेर्जीवस्य पुच्छादिकस्तदवयवो देश एवेति कृत्वा न जीव इष्यते, संपूर्णस्यैव जीवत्वात् । ययेवम् , अजीवस्यापि घटादेर्देशो नो नैवाजीवः पामोति, संपूर्णस्यैवाजीवत्वात् । ततोऽयमजीवदेशोऽपि नोअजीव एव स्यात् , न स्वजीवः । तथा च सति स एव राशिचतुष्टयप्रसङ्ग इति ।। २४७५ ॥
यदुक्तम्- 'इच्छइ जीवपएसं नाजीवं जं च समभिरूढो वि' इत्यादि । तत्राह--
नोजीवं ति न जीवादण्णं देसमिह समभिरूढो वि । इच्छइ बेइ समासं जेण समाणाहिगरणं सो ॥२४७६॥
॥९९२॥
१ अथ तेऽजीवदेशोऽजीवसामान्यजाति-लिङ्ग इति । भिन्नोऽप्यजीव एव न जीवदेशोऽपि किं जीवः १ ॥ २४७५ ॥ २ छिन्नगृहकोकिलापि खलु जीवस्तलक्षणैः सकल इव ! अथ देश इति न जीवोऽजीवदेश इति नोमजीवः ॥ २५७५ ॥ ३ गाथा २४६२ ॥ ५ नोजविमिति न जीवादन्यं देशमिह समभिरूडोऽपि । इच्छति ब्रवीति समासं येन समानाधिकरणं सः ॥ २४७६ ॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202