Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
सख
विशेषा
बृहदा
॥९९०॥
अथैतदोषभयान जीवस्य च्छेदोऽभ्युपगम्यते, किन्त्वविमुक्तोऽप्यविच्छिन्नोऽपि जीवसंबद्धोऽपि तकोऽसौ जीवदेशो नो. जीवस्त्वयेष्यते, यथा धर्मास्तिकायायकदेशो नोधर्मास्तिकायादिः । ततस्तहि प्रतिप्रदेशं ते तव नोजीवसद्भावादेकैकस्मिन्नात्मन्यसंख्येया KO नोजीवाः पाप्ताः, ततस्ते तब नास्ति कापि जीवसंभवः, सर्वेषामपि जीवानां प्रत्येकमसंख्येयनोजीवत्वप्राप्तेरिति ।। २४७० ।।
दूषणान्तरमपि प्रसञ्जयनाह-
ऐवमजीवा वि पइप्पएसभेएण नोअजीव त्ति। नत्थि अजीवा केइ कयरे ते तिन्नि रासि त्ति ? ॥२४७१॥
एवमजीवा अपि धर्मास्तिकायादयो घणुक-स्कन्धादयो घटादयश्च प्रतिप्रदेशभेदतोऽजीवैकदेशत्वाद् नोअजीवाः, घटैकदेशनोघटवदिति, अतोऽजीवाः केचनापि न सन्ति, परमाणनामपि पुद्गलास्तिकायलक्षणाजीवैकदेशत्वेन नोअजीवत्वात् सर्वत्र नोअजीवानामवोपपद्यमानत्वात् । ततश्च कतरे ते त्रयो राशयः- त्वया ये राजसभायां प्रतिष्ठिताः, उक्तन्यायेन नोजीव-नोअजीवलक्षणराशिद्वयस्यैव सद्भावात् । इति । तस्माद् बहुदोषप्रसङ्गाद् न जीवश्छिद्यत इति स्थितम् ।। २४७१ ।।
छियता वाऽसौ तथापि न नोजीवसिद्धिरिति दर्शयन्नाहछिन्नो व होउ जीवो कह सो तल्लक्खणो वि नोजीवो ? । अह एवमजीवस्स वि देसो तो नोअजीवो त्ति ॥२४७२॥ एवं पि रासओ ते न तिन्नि चत्तारि संपसज्जंति । जीवा तहा अजविा नोजीवा नो अजीवा य ॥२४७३॥
पुच्छाद्यवयवच्छेदेन च्छिन्नोऽपि भवतु गृहकोकिलादिजीवः, केवलं तस्य जीवस्य लक्षणानि स्फुरणादीनि यस्यासौ तल्लक्षणोऽपि सन्नसौ पुच्छादिदेशः कथं केन हेतुना नोजीवो भण्यते ? । इदमुक्तं भवति-संपूर्णोऽपि गृहकोकिलाजीवः स्फुरणादिलक्षणैरेव जीवो भण्यते, स्फुरणादीनि च लक्षणानि च्छिन्ने तदवयवेऽपि पुच्छादिके दृश्यन्ते, अतस्तल्लक्षणयुक्तोऽप्यसौ किमिति जीवो न भण्यते येन नोजीवकल्पनाऽत्र विधीयते ? इति । 'अह एवमिति' अथैवं जीवलक्षणैः सद्भिरपि पुच्छादिकस्तदवयवो नोजीच एवेष्यते, न पुनः स्वाग्रहस्त्यज्यत इत्यर्थः । अत्र मूरिराह- 'तो त्ति' ततस्तर्हि अजीवस्यापि घटादेर्देशो नोअजीवः प्रामोति, जीवैकदेशनोजीववदिति । अस्त्वेवं
, एवमजीवा अपि प्रतिप्रदेशभेदेन नौअजीचा इति । न सन्त्यजीवाः केचित् कतरे से प्रयो राशय इति ॥ २४७१॥ २ छिनो वा भवतु जीवः कथं स तलक्षणोऽपि नोजीवः । अथैबमजीवस्यापि देशस्ततो नोअजीव इति ॥ २५७२ ॥ एवमपि राशयस्ते न अयश्चत्वारः संप्रसजन्ति । जीवास्तथाऽजीवा नोजीवा नोअजीवाश्च ॥ २४७३ ॥
MATHASHARE
॥९९०॥
For Personal and Present
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202