Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 191
________________ विशेषा वृहद्वत्तिः । ॥९८९॥ नसहरकत ऽसौ। जिनमते हि जीवस्य सतः सर्वथा विनाशोऽसतश्च सर्वथोत्पादः सर्वत्र निषिद्ध एव; यदाह- "जीवा णं भंते ! किं वदति हायंति, अवढिया । गोयमा ! नो वड्दंति, नो हायंति, अवट्ठिया" इत्यादि । अतो जीवस्य सर्वथा नाशेऽभ्युपगम्यमाने जिनमतत्याग एव स्यात् । तथा ततस्तत्सर्वनाशादनिर्मोक्षो मोक्षाभावः प्रामोति, मुमुक्षोः सर्वथा नाशात् । मोक्षाभावे च दीक्षादिकष्टानुष्ठानवैफल्यम् , क्रमेण च सर्वेषामपि जीवानां सर्वनाशे संसारस्य शून्यताप्राप्तिः, कृतस्य च शुभाशुभकर्मणो जीवस्य सर्वनाश एवमेव नाशात् कृतनाशप्रसङ्ग इत्यादि वाच्यमिति न जीवस्य खण्डशो नाशः। गृहकोकिलादीनां पुच्छादिखण्डस्य पृथग्भूतत्वेन प्रत्यक्षत एवं नाशो दृश्यत इति चेत् । तदयुक्तम् । औदारिकशरीरस्यैव हि तत् खण्डमध्यक्षतो वीक्ष्यते, न तु जीवस्य, तस्यामूर्तत्वेन केनापि खण्डयितुमशक्यत्वादिति ॥ २४६८॥ अथात्रैव पराभिप्रायमाशक्य दूषयति अह खंधो इव संघाय-भेयधम्मा स तो वि सव्वेसिं । अवरोप्परसंकरओ सुहाइगुणसंकरो पत्तो ॥२४६९॥ अथ पुद्गलस्कन्ध इव सावयवत्वात् स जीवः संघात-भेदधर्माऽभ्युपगम्यते, यथा कचिद् विवक्षितपुद्गलस्कन्धेऽन्यस्कन्धगतं खण्डं समागत्य संहन्यते संबध्यते, तद्गतं च खण्डं भित्वाऽन्यत्र गच्छति, एवं जीवस्याप्यन्यजीवखण्डं संहन्यते, तद्गतं तु भिद्यत इत्येवं संघातभेदधर्मा जीव इष्यत इति । अतः खण्डशो नाशेऽपि संघातस्यापि सद्भावाद् न तस्य सर्वनाश इति परस्याभिप्रायः । अत्र दुषणमाह- 'तो वि सव्वेसिं इत्यादि' एवमपि च सति सर्वेषामपि सर्वलोकवर्तिनां जीवानां परस्परसंकरतः सुखादिगुणसंकरः प्राप्तः । इदमुक्तं भवति- यदैकं जीवसंबन्धिशुभाशुभकर्मान्वितं खण्डमन्यजीवस्य संबध्यते, अन्यसंबन्धि तु खण्डं तस्य संबध्यते, तदा तत्सुखादयोऽन्यस्य प्रसजन्ति, अन्यसुखादयस्तु तस्य, इत्येवं सर्वजीवानां परस्परं सुखादिगुणसांकय स्यात् । तथैकस्य कृतनाशः, अन्यस्याकृताभ्यागम इत्यादि वाच्यमिति ॥ २४६९ ॥ . अन्यमपि पराभिप्रायमाशङ्कय दूषणान्तरमाहअह अविमुक्को वि तओ नोजीबो तो पइप्पएसं ते।जीवम्मि असंखेजा नोजीवा नत्थि जीवो ते ॥२४७०॥ जीवा भगवन् ! किं वर्धन्ते, हीयन्ते, अवस्थिताः । गौतम! नो वर्धन्ते, नो हीयन्ते, अवस्थिताः । २ अथ स्कन्ध हव सज्ञात-भेदधर्मा स ततोऽपि सर्वेषाम् । परस्परसंकरतः सुखादिगुणसंकरः प्राप्तः ॥ २४६९ ॥ ३ अथाविमुक्तोऽपि सको नोजीवस्ततः प्रतिप्रदेशं ते । जीवेऽसंख्येया नोजीवा नास्ति जीवस्ते ॥ २४७० ॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202