Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥९८७॥
MSCRIBE
न संबन्धः संयोगस्तदन्तरालसंबन्धः सूत्रेऽभिहित एव । तथा च भगवतीमूत्रम्- अहे भंते ! कुम्मा कुम्मावलिया, गोहा गोहावलिया, गोणे गोणावलिया, मणुसे मणुसावलिया, महिसे महिसावलिया, एएसिं णं दुहा वा, तिहा वा, असंज्जेखज्जहावा छिन्नाणं जे अंतरा ते
विबृहद्वत्तिः। णं तेहिं जीवपएसेहिं फुडा। हता फुडा। पुरिसे णं भंते ! अंतरे हत्थेण वा, पाएण वा, अंगुलियाए वा, कहेण वा, किलिंचेण वा, आमुसमाणे वा, समुसमाणे वा, आलिहमाणे वा, विलिहमाणे वा, अण्णयरेण वा तिक्खेणं सत्थजाएणं आछिंदमाणे वा, विछिंदमाणे वा अगणिकाएणं समोदुहमाणे तेसि जीवपएसाणं किंचि आवाहं वा विवाह वा उप्पाएइ, विच्छेयं वा करेइ ? । नो इणद्वे समझे । नो खलु तत्थ सत्थं संकमइ” इति । यदि नामैवं सूत्रे जीवप्रदेशानां तदन्तरालसंबन्धोऽभिहितः, तर्हि तदन्तराले ते जीवप्रदेशाः किमिति नोपलभ्यन्ते ? इत्याह- 'सुहुमेत्यादि' कार्मणशरीरस्य सूक्ष्मत्वात् , जीवप्रदेशानां चामूर्तत्वादन्तराले तेषां जीवप्रदेशानां सतामप्यग्रहणं तदग्रहणमिति ।। २४६४ ॥
ननु यथा देहे पुच्छादौ च स्फुरणादिभिर्लिङ्गैर्जीवप्रदेशा गृह्यन्ते, तथा सन्तोऽप्यन्तराले किमिति ते न गृह्यन्ते ? इत्याह
गैज्झा मुत्तिगयाओ नागासे जहा पईवरस्सीओ । तह जीवलक्खणाई देहे न तदंतरालम्मि ॥२४६५ ॥
इह भू-कुड्य-वरण्डका-अन्धकारादीनि वस्तुन्येव मूर्तियोगाद् मूर्तिरुच्यन्ते । ततश्च यथा मूर्तिगता यथोक्तवस्तुगता एवेत्यर्थः, प्रदीपरश्मयो ग्राह्या भवन्ति, न तु केवल आकाशे प्रसृताः, तथा तेनैव प्रकारेण जीवो लक्ष्यते यैस्तानि जीवलक्षणानि भाषणो-च्छासनिःश्वास-धावन-वल्गन-स्फुरणादीनि देह एवं गृह्यन्ते न तु तदन्तराल इति ॥ २४६५ ॥
यतश्चैवं ततः किम् ? इत्याह--
। अथ भगवन् ! कूर्मः कूर्मावयवाः, गोधा गोधावयवाः, गोगोऽवयवाः, मनुष्यो मनुष्यावयवाः, महिषो महिषावयवाः, एतेषां द्विधा था त्रिधा वाऽसंख्येE- यप्रकारेण वा छिन्नानां येऽन्तरालेऽपि तैर्जीवप्रदेशैः स्फुटाः । हन्त ! स्फुटाः । पुरुषो भगवन् ! अन्तहस्तेन वा, पादेन वा, अङ्गुल्या बा, काण्डेन वा, किलिञ्चेन वाssमृध्यमाणो वा, संमृष्यमाणो वा, आलियमानो वा, विलियमानो वा, अन्यतरेण वा तीक्ष्णेन शस्त्रजासेनाच्छिद्यमानो वा विच्छिद्यमानो वाऽनिकायेन समुद्रुह्यमाणस्तेषां
AGA||९८७॥ जीवप्रदेशानां काञ्चिदाबाधां वा विबाधां वोल्पादयति, विच्छेदं वा करोति । नायमर्थः समर्थः, नो खलु तत्र शस्त्रं संक्रामति ।
२ ग्राह्या मूर्तिगता नाकाशे प्रदीपरश्मयः । तथा जीवलक्षणानि देहे न तदभ्सराले ॥ २४५५ ॥
Jan Edu
Internat
For Personal and Price Use Only
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202