Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
Relate
विशेषा.
बृहद्वत्तिः ।
॥९८६॥
ऽप्यस्ति, न पुनर्मयैव केवलेनोच्यते; तथाचानुयोगद्वारेषु प्रमाणद्वारान्तर्गतं नयप्रमाणं विचारयता प्रोक्तम्- “समभिरूढो सद्दनयं भणइजइ कम्मधारएण भणसि तो एवं भणाहि- जीवे य से पएसे य से सपएसे नोजीवे" इति। तदनेन प्रदेशलक्षणो जीवैकदेशो नोजीव उक्तः, यथा घटैकदेशो नोघट इति । तस्मादस्ति नोजीवलक्षणस्तृतीयराशिः, युक्त्या-ऽऽगमसिद्धत्वात् , जीवा-जीवादितत्त्ववदिति ॥ २४६१ ॥ २४६२॥
तदेवं षड्डुलकेनोक्त आचार्यः प्रतिविधानमाह
जैइ ते सुयं पमाणं तो रासी तेसु तेसु सुत्तेसु । दो जीवाजीवाणं न सुए नोजीवरासि त्ति ॥२४६३॥ _ 'धम्माइदसविहादेसओ य' इत्याशुपन्यासात् सूत्रप्रामाण्यवादी किल लक्ष्यते भवान् । तद् यदि सत्यमेव तव मूत्रं प्रमाणम् , ततस्तर्हि तेषु तेषु सूत्रेषु जीवा-ऽजीवरूपी द्वावेव राशी मोक्तौ, तथा च स्थानाङ्गसूत्रम्- “दुवे रासी पण्णत्ता, तं जहा- जीवा चेव अजीवा चेव" । तथा, अनुयोगद्वारसूत्रेऽप्युक्तम्- "कइविहा णं भन्ते ! दव्या पण्णत्ता । गोयमा ! दुविहा पण्णत्ता, तं जहा-जीवदव्वा य अजीवदव्वा य" | तथा, उत्तराध्ययनसूत्रे चाभिहितम्- “जीवा चेव अजीवा य एस लोए वियाहिए" इत्याद्यन्येष्वपि सूत्रेषु द्रष्टव्यम् । नोजीवराशिस्तु तृतीयः श्रुते न कचिदप्यभिहितः, तत् कथं तत्सत्त्वप्ररूपणा न श्रुताशातना ? इति । न च धर्मास्तिकायादीनां देशस्तेभ्यो भिन्नः कोऽप्यस्ति, विवक्षामात्रेणव तस्य भिन्नवस्तुत्वकल्पनात् ॥ २४६३ ॥
एवं पुच्छादिकमपि गृहकोकिलादिजीवेभ्योऽभिन्नमेव, तत्संबद्धत्वात् , अतो जीव एव तत् , न तु नोजीव इति दर्शयन्नाह
गिहकोलियाइपुच्छे छिन्नम्मि तदंतरालसंबंधो । सुत्तेऽभिहिओ सुहुमामुत्तत्तणओ तदग्गहणं ॥२४६४॥ गृहकोकिलादीनां पुच्छादिकेऽवयंव छुरिकादिना छिन्नेऽपि तयोहकोकिल-पुच्छादिवस्तुनोर्यदन्तरालं विचालं तत्र जीवपदेशान
१ समभिरूढः शब्दन भणति- यदि कर्मधारयेण भणसि तत एवं भण-जीवश्च स प्रदेशश्च तस्य स्वप्रदेशो नोजीवः । २ यदि ते श्रुतं प्रमाण ततो राशी तेषु तेषु सूत्रेषु । द्वौ जीवा-उजीवानां न श्रुते नोजीवराशिरिति ॥ २४६३ ॥ । द्वौ राशी प्रज्ञप्ती, तद्यथा-जीवाश्चैव, अजीवाश्चैव । । कतिविधानि भगवन् ! च्याणि प्रज्ञप्तानि । गौतम ! द्विविधे प्रज्ञप्ते, तद्यथा- जीवद्रव्यं च अजीवद्रव्यं च । १ गृहकोकिलादिपुच्छे छिने तदन्तरालसंबन्धः। सूत्रेऽभिहितः सूक्ष्मा-ऽमूर्तस्वतस्तदग्रहणम् ॥ २४६५ ॥ .
॥९८६।।
JanEducationainten
For Personal and
Use Only
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202