Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 186
________________ विशेषा. बृहद्वत्तिः । ॥९८४॥ बहुसो स भण्णमाणो गुरुणा, पडिभणइ किमवसिद्धंतो। जइ नाम जीवदेसो नोजीवो हुज को दोसो ? ॥२४५९॥ व्याख्या-पोट्टशालपरिव्राजक जित्वा गुरुचरणमूलमागत्य रोहगुप्तोऽपरनाम्ना तु षडुलूको भणति-स परिव्राजकाधमः समस्तनृपसभामध्ये यथा वादे मया विजितस्तथा शृणुत यूयं, कथयामीति । तदेवाह-राशिद्वयगृहीतपक्षः स परिव्राजको मया वादे विजित इति प्राक्तनेन संबन्धः । किं कृत्वा ? इत्याह-तृतीय जीवराशिमादाय पक्षीकृत्य । कुतो दृष्टान्तादसौ पक्षीकृत्य ? इत्याह-गृहकोकिलादीनां पुच्छमेव छिन्नत्वाच्छेदस्तदुदाहरणतस्तदृष्टान्तादित्यर्थः । एवं रोहगुप्तेनाभिहिते गुरुर्भणति- सुष्टु कृतं त्वया यदसौ जितः, किन्तु तत्रोत्तिष्ठता त्वया किमेतद् नाभिहितम् । किम् ? इत्याह- तृतीयो नोजीवराशिरित्ययं 'णे ति' नोऽस्माकमपसिद्धान्तः, जीवाऽजीवलक्षणराशिद्वयस्यैवाऽस्मत्सिद्धान्तेऽभिहितत्वादिति । तस्मादेवं गतेऽप्येतावत्यपि गत इत्यर्थः, तत्र परिपन्मध्ये गत्वा भण प्रतिपादय 'नायं णे त्ति' नोऽस्माकं नायं सिद्धान्तः, किन्तु स परिव्राजकस्तबुद्धिं परिभूय तिरस्कृत्य शमित उपशमं नीतो दर्प त्याजित इत्यर्थः। एवं बहुशोऽनेकधा गुरुणा भण्यमानः स रोहगुप्तः प्रतिभणति प्रत्युत्तरयति- आचार्य ! किमयमपसिद्धान्तः । यदि हि नोजीवलक्षणतृतीयराश्यभ्युपगमे कोऽपि दोषः स्यात् तदा स्यादयमपसिद्धान्तः, न चैतदस्ति । कुतः ? इत्याह- यदि नाम गृहकोकिलापुच्छादिजीवदेशो नोजीवो भवेत्- नोजीवत्वेनाभ्युपगम्येत, तर्हि को दोषः स्यात् ? न कमपि दोषमत्र पश्याम इत्यर्थः । ततः किमित्यपसिद्धान्तत्वे दोषपरिहारार्थ पुनर्मी तत्र प्रेषयसि ? इति भावः ॥ २४५५ ।। २४५६ ॥ २४५७ ।। २४५८ ॥ २४५९ ॥ कस्माद् न दोषः ? इत्याह-- __ 9 देसनिसेहपरो नोसद्दो जीवदव्वदेसो य । गिहकोइलाइपुच्छं विलक्खणं तेण नोजीवो ॥ २४६० ॥ यद् यस्माद् 'नोजीवः' इत्यत्र नोशब्दो देशनिषेधपरो न तु सर्वनिषेधपरः, नोजीवो जीवैकदेशो न तु सर्वस्यापि जीवस्याभाव इत्यर्थः। भवत्वेवं देशनिषेधको नोशब्दः, परं गृहकोकिलादिपुच्छं जीवदेशो न भविष्यतीत्याशङ्कयाह- जीवद्रव्यैकदेशश्च गृहकोकिलादिपुच्छम् , आदिशब्दाच्छिन्नपुरुषादिहस्तादयः परिगृह्यन्ते । कथंभूतं तद् गृहकोकिलादि पुच्छम् ? इत्याह- विलक्षणं 'जीवा-जीवेभ्यः' इति गम्यते; तथाहि- न तावद् गृहकोकालादिपुच्छं जीवत्वेन व्यपदेष्टुं शक्यते, तत्कायैकदेशत्वेन तद्विलक्षणत्वात् । ९८४॥ , बहुशः स भण्यमानो गुरुणा प्रतिभणति किमपसिद्धान्तः । यदि नाम जीवदेश नोजीयो भवेत् को दोपः ॥ २४५९ ॥ २ यद् देशनिषेधपरो नोशब्दो जीवद्यदेशश्च । गृहकोकिलादिपुच्छं विलक्षणं तेन नोजीवः ॥ २४६० ॥ For Personal Use Only

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202