Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 187
________________ विशेषा. ॥९८५ | नाप्यजीव इत्यभिधातुं पार्यते, स्फुरणादिभिस्तेभ्योऽपि विलक्षणत्वात् । येनैवम् , तेन कारणेन पारिशेष्याद् नौजीव एतदुच्यत इति ॥२४६०॥ सिद्धान्तेऽपि धर्मास्तिकायादिदेशवचनादुक्त एव नोजीवः । कथम् ? इत्याह-- बृहद्वतिः। धम्माइदसविहादेसओ य देसो वि जं पिहुं वत्थु । अपिहुब्भूओ किं पुण च्छिन्नं गिहकोलियापुच्छं ? ॥२४६॥ इच्छइ जीवपएसं नोर्जावं जं च समभिरूढो वि । तेण त्थि तओ समए घडदेसो नोघडो जह वा ॥२४६२॥ व्याख्या- चकारस्य भिन्नक्रमत्वाद् यद् यस्मात् कारणाद् देशोऽपीत्यपिशब्दस्यापि भिन्नक्रमत्वाद् धर्मास्तिकायादिदोशनः 'अपिहन्भूओ त्ति' अपृथग्भूतोऽप्येकत्वमापन्नोऽपि देशः 'पिहं वत्थु ति' सिद्धान्ते पृथग् वस्तु 'भणितः' इति शेषः, पृथग्वस्तुत्वेन निर्दिष्ट इत्यर्थः । किं पुनर्यच्छिन्नमात्मनः पृथग्भूतं कृतं तद् गृहकोकिलादिपुच्छं पृथग् वस्तु न भविष्यति ?- भविष्यत्येवेति । तच्च जीवच्छिन्नत्वेन पृथग्भूतत्वात् , स्फुरणादिना चाजीवविलक्षणत्वात् सामाद् नोजीव एवेति भावः । कुतः पुनर्वचनादेष सिद्धान्ते पृथग वस्तु भ. णितः ? इत्याह-'धम्माइदसविहादेसउ ति' धर्मास्तिकायादीनाममूर्ताजीवानां दशविधादेशतो दशविधत्वभणनात् । एतदुक्तं भवतिअजीवनरूपणां कुर्वद्भिक्तं परममुनिभिः- "अजीवा दुविहा पण्णत्ता, तं जहा-रूविअजीवा य, अरूविअजीवा य । रूविअजीवा चउबिहा पण्णत्ता, तं जहा- खंधा, देसा, पएसा, परमाणुपोग्गला । अरूविअजीवा दसविहा पण्णत्ता, तं जहा- धम्मस्थिकाए, धम्मत्थिकायस्स। देसे, धम्मत्थिकायस्स पएसे, एवमधम्मत्थिकाए वि, आगासत्थिकाए वि, अद्धासमए" । तदेवं धर्मास्तिकायादीनां दशविधत्वभणनेन तद्देशस्य पृथग्वस्तुत्वमुक्तमेव, अन्यथा दशविधत्वानुपपत्तेः । यदा च धर्मास्तिकायादीनां देशस्तेभ्योऽपृथग्भूतोऽपि पृथ, वस्तूच्यते, तदा गृहकोकिलापुच्छादिकं छिन्नत्वेन जीवात् पृथग्भूतं सुतरां वस्तु भवति । तच्च जीवा-ऽजीवविलक्षणत्वाद् नोजीव इत्युक्तमेवेति । अपिच, यद् यस्मात् कारणाज्जीवप्रदेशं नोजीवं समभिरूढनयोऽपीच्छति, तेन तस्मात् तकोऽसौ नोजीवः सपये सिद्धान्ते धर्माविवशविधादेशतश्च देशोऽपि यत् पृथग् वस्तु । अपृथग्भूतः किं पुनश्ठि गृहकोकिलापुछम् ! ॥ २५६१॥ इच्छति जीवप्रदेश नोजीवं यच्च समभिरूढोऽपि । तेनास्ति सकः समये घटदेशो नोघटो यथा वा ॥ १४२ ॥ २ अजीवा द्विविधाः प्रज्ञप्ताः, तद्यथा- रूप्यजीवाश्च, अरूप्यजीवाश्च । रूप्यजीवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा- स्कन्धाः, देशाः, प्रदेशाः, परमाणुपुद्गलाः । ॥९८५॥ अरूप्यजीवा दशविधाः प्राप्ताः, तद्यथा- धर्मास्तिकायो धर्मास्तिकायस्य देशः, धमास्तिकायस्य प्रदेशः, एवमधर्मास्तिकायोऽपि, भाकाशास्तिकायोऽपि अद्धासमयः । १२४ For Personal and Use Only T ajanesbrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202