Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 184
________________ विशेषा० ॥९८२॥ Jain Education Internat तया नगर्यो भ्राम्यति । 'किमेतत् ?' इति च लोकेन पृष्टो वदति- 'मदीयोदरमतीव ज्ञानेन पूरितस्वात् स्फुटतीति लोहपट्टेन बद्धम्, 'जम्बूद्वीपमध्ये च मम प्रतिवादी नास्ति' इत्यस्यार्थस्य सूचनार्थ जम्बूक्षशाखा हस्ते गृहीता । ततस्तेन परिव्राजकेन सर्वस्यामपि नगर्यो 'शून्याः सर्वेऽपि परप्रवादाः, नास्ति कश्चिद् मम प्रतिवादी' इत्युद्घोषणा पूर्वकः पटहको दापितः । लोहपट्टबद्धपोट्ट-जम्बूवृक्षशाखायोगाच्च तस्य लोके 'पोट्टशाल' इति नाम जातम् । ततस्तत्पटहको नगरी प्रविशता रोहगुप्तेन दृष्टः, उद्घोषणा च श्रुता । ततो 'अहं तेन सार्धं वाद दास्यामि' इत्यभिधाय गुरुनपृष्ट्वापि निषिद्धस्तेनासौ पटहकः । गुरुसमीपं चागत्यालोचयता कथितोऽयं व्यतिकरस्तेषाम् । आचार्यैः प्रोक्तम्- न युक्तं त्वयाऽनुष्ठितम् स हि परिव्राजको वादे निर्जितोऽपि विद्यास्वतिकुशलत्वात् ताभिरुपतिष्ठति । तस्य चैताः सप्त विद्या वाढं स्फुरन्ति ।। २४५२ ।। काः पुनस्ताः ? इत्याह 'बिच्छू य सप्पे मूसग मिगी वराही य काग पोयाई । एयाहिं विज्जाहिं सो य परिवायगो कुसल ॥ २४५३॥ ‘विच्छू य त्ति' वृश्चिकप्रधाना विद्या गृह्यते । 'सप्पे चि' सर्पप्रधाना विद्या । 'मूसगे त्ति' मूषकमधाना । तथा मृगी नाम विद्या मृगरूपेोपघातकारिणी । एवं वराही च । 'काग पोयाइ सि' काकविया, पोताकीविद्या च । पोताक्यः शकुनिकाः । एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति । ततो रोहगुप्तेनोक्तम्- 'यद्येवम्, तत् किमिदानीं नष्टुं कापि शक्यते ?, निषिद्धस्तत्पटहकः, यद् भवति तद् भवतु' । ततः सूरिभिः प्रोक्तम्- 'यद्येवम्, तर्हि पठितसिद्धा एवैताः सप्त तत्प्रतिपक्षविद्या गृहाण ॥ २४५३ ॥ काः पुनस्ताः ? इत्याह १ मोरी नउली बिराली वग्धी सिही य उलुगि उधाई । एआओ विज्जाओ गिव्ह परिव्वायमहणीओ ॥ २४५४॥ वृश्चिकाणां प्रतिपक्षभूता मोरीविद्या । सर्पाणां तु प्रतिपक्षभूता नकुली । मूषकाणां विडाली । एवं व्याघ्री, सिंही, उलूकी । "'वाइ त्ति' पोताकी प्रतिपक्षभूता उलावकप्रधाना विद्येत्यर्थः । एताः परिव्राजकमथनीर्विद्या गृहाण स्वम् । इति सूरिणा प्रोक्ते गृह्णाति रोहगुप्तः । तथा रजोहरणं चाभिमन्त्र्य सूरिभिस्तस्य समर्पितम् । अभिहितश्च यथा यद्यन्यदपि किञ्चित् तत्प्रणीतक्षुद्रविद्याकृतमुपसर्ग १ वृश्चिकी सर्प सूपकी मृगी वराही काकी पोताकी । एताभिर्विद्याभिः स च परिब्राजकः कुशलः ॥ २४५३ ॥ २ मोरी नकुली बिडाली व्याघ्री सिंही खोलुकी उठावकी । एता विद्या गृहाण परिब्राजकमथनीः ।। २४५४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९८२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202