Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥९८१ ॥
Jain Educators Internati
वनमित्यादि, न तु युगपदुपयोग इत्युक्तमेव । तथा च भिन्नकाले एव शीतोष्णविशेषज्ञाने । ततो भ्रान्तमेव समकालं शीतोष्णक्रियाद्वयवेदनं भवत इति ।। २४४७ ।। २४४८ ॥
इत्यादियुक्तितैः प्रज्ञापितोऽपि न स्वाग्रहं मुक्तवान् गङ्गः । ततः किम् ? इत्याह
पणविओ विजओ न पवज्जइ तो तओ कओ ब्रज्झो। तो रायगिहे समयं किरियाओ दो परूवंतो ॥२४४९॥ मणिनागेणारद्धो भओववत्तिओ पडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण तओ पडिकंतो ॥२४५०॥ व्याख्यातार्थे एव ॥ इति सप्तविंशतिगाथार्थः || २४४९ ।। २४५० ।।
॥ इति गङ्गाख्यः पञ्चमो निह्नवः समाप्तः ॥
अथ षष्ठवक्तव्यतामभिधित्सुराह
पेंच सया चोयाला तइआ सिद्धिं गयरस वीरस्स । पुरिमंतरंजियाए तेरासियदिट्ठी उप्पन्ना || २४५१॥ पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य श्रीमन्महावीरस्य, अत्रान्तरेऽन्तरञ्जिकायां पुर्या त्रैराशिकदृष्टिरुत्पन्नेति ।। २४५१ ॥
कथमुत्पन्ना ? इत्याह
पुरिमंतरंज भूयहि बलसिरी सिरिगुत्त रोहगुत्ते य । परिवायपोट्टसाले घोसणपडिसेहणा वा ॥ २४५२॥ संग्रहगाथेयम् । अस्याश्च कथानकादर्थोऽवसेयः । तच्चेदम्- अन्तरञ्जिका नाम नगरी । तस्याश्च वहिर्भूतगृहं नाम चैत्यम् । तत्र च श्रीगुप्तनामाचार्यः स्थितः । तस्यां च नगर्यो बलश्रीर्नाम राजा । श्रीगुप्ताचार्याणां च रोहगुप्तो नाम शिष्योऽन्यत्र ग्रामे स्थित आसीत् । अतोऽसौ गुरुवन्दनार्थमन्तरञ्जिकायामागतः । तत्र चैकः परिव्राजको लोहपट्टकेनोदरं बद्ध्वा जम्बूवृक्षशाखया च हस्ते गृही
१ इति प्रज्ञापितोऽपि यतों न प्रपद्यते ततः सको कृतो बाह्यः । ततो राजगृहे समकं क्रिये द्वे प्ररूपयन् ॥ २४४९ ॥ मणिनागेनारब्धो भयोपपत्तितः प्रतिबोधित उक्त्वा । इच्छामो गुरुमूलं गत्वा ततः प्रतिक्रान्तः ॥ २४५० ॥
२ पञ्च शतानि चतुश्चत्वारिंशता तदा सिद्धिं गतस्य वीरस्य । पुर्यामन्तरक्षिकायां त्रैराशिकदृष्टिरुत्पन्ना ॥ २४५१ ॥
३ पुर्वन्तरञ्जिका भूतगृहं बलश्रीः श्रीगुप्तो रोहगुप्तश्च । परिब्राजकपोट्टशालो घोषणप्रतिषेधना वादः ॥ २४५२ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
॥९८१ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202