Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 176
________________ विशेषा बृह ॥९७४॥ किश्च, उवओगमओ जीवो उवउज्जइ जेण जम्मि जं कालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥२४३१॥ उपयोगेनैव केवलेन निर्वृत्त उपयोगमयो जीवः । ततः स येन केनापि स्पर्शनादीन्द्रियदेशेन करणभूतेन यस्मिन् शीतोहणाधन्यतरविषये 'जं कालं ति' यस्मिन् काल उपयुज्यते सावधानो भवति तन्मयोपयोगो भवति- यत्र शीताद्यन्यतरार्थ उपयुक्तस्तन्मयोपयोग एव भवति नान्यथोपयुक्त इत्यर्थः । उदाहरणमाह- 'जहिंदोवओगम्मि त्ति' यथेन्द्रोपयोगे वर्तमानो माणवकस्तन्मयोपयोग एव भवति, न पुनरर्थान्तरमयोपयोगः । इदमत्र तात्पर्यम्- एकस्मिन् काल एकत्रैवार्थ उपयुक्तो जीवः संभवति, न | त्वर्थान्तरे, पूर्वोक्तसांकर्यादिदोषप्रसङ्गात् । ततश्च युगपत्क्रियाद्वयोपयोगानुभवोऽसिद्ध एवेति ॥ २४३१ ॥ एकस्मिन्नर्थ उपयुक्तः किमत्यर्थान्तरेऽपि नोपयुज्यते ? इत्याह सो तदुवओगमेत्तोवउत्तसत्ति त्ति तस्समं चेव । अत्यंतरोवओगं जाउ कहं केण वंसेण ? ॥ २४३२ ॥ स जीवः 'तदुवओगमेत्तोवउत्तसत्ति ति तस्य विवक्षितैकार्थस्योपयोगस्तदुपयोगः स एव तन्मात्र तत्रोपयुक्ता व्यापृता निष्ठां गता शक्तिर्यस्य स तदुपयोगमात्रोपयुक्तशक्तिरिति कृत्वा कथं तत्समकालमेवार्थान्तर उपयोगं यातु - न कथञ्चिदित्यर्थः, सांकर्यादिप्रसङ्गात् । किञ्च, सर्वैरपि स्वप्रदेशैरेकस्मिन्नर्थ उपयुक्तो जीवः केनोदरितेनांशेनार्थान्तरोपयोगं व्रजतु । नास्त्येव हि स कश्चिदुरितोंशो येन तत्समकमेवार्थान्तरोपयोगमसौ गच्छेदिति भावः ॥ २४३२ ॥ यदि समकालमेव क्रियायोपयोगो न भवति, तहि कथमहं तं संवेदयामि ? इत्याशङ्ख्याह समयाइसुहुमयाओ मन्नसि जुगवं च भिन्नकालं पि । उप्पलदलसयवेहं व जह व तदलायचकं ति॥२४३३॥ समयावलिकादिकालकृतविभागस्य सूक्ष्मत्वाद् भिन्नकालमपि कालविभागेन प्रवृत्तमपि क्रियाद्वयसंवेदनमुत्पलपत्रशतवेधवद् युगपत् प्रवृत्तमिव मन्यसे त्वम् । न हि उत्पलपत्रशतमौत्तराधर्येण व्यवस्थापित सुतीक्ष्णयापि सूच्या छेकेन समर्थेनापि च वेधका सम १ उपयोगमयो जीव उपयुज्यते येन यस्मिन् यस्मिन् काले । स तन्मयोपयोगो भवति यथेन्द्रोपयोगे ॥ २४३३॥ २ स तदुपयोगमात्रीपयुक्तशक्तिरिति तत्सममेव । अर्थान्तरोपयोग यातु कधं केन वांशेन ? ॥ २४३२ ॥ ३ समयादिसूक्ष्मतातो मन्यसे युगपच्च्च भिन्न कालमपि । उत्पलदलशतवेधमिव यथा वा तदलातचक्रमिति ॥ २४३३ ॥ जाजरकाकानामन्जसमजफकरक बासस ॥९७४॥

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202