Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
यथैककाले द्वितीयोपयोगस्तथा बहवोऽपि भवन्त्विति भावः । इह च 'दव्याओ असंखेज्जे संखेजे यावि पज्जवे लहइ' इति वचविशेषा
नादेकस्मिन्नर्थे समकालमवाधिज्ञानिनः किलोत्कृष्टतोऽसंख्येया उपयोगाः प्राप्नुवन्ति, शेषज्ञानिनां स्वनन्ता इत्यभिप्रायवता प्रोक्तम्॥९७७॥ 'पइवत्थुमसंखेज'- इत्यादि ॥ २४३७ ॥
अत्र पराभिप्रायमधिकृत्य परिहारमाह__ बेहु-बहुविहाइगहणे नणुवओगबहुया सुएऽभिहिआ । तमणेगग्गहणं चिय उवआगाणेगया नस्थि॥२४३८॥
ननु बहु-बहुविध-क्षिप्रा-निश्रिता-संदिग्ध-ध्रुव-सेतरवस्तुग्रहणे पूर्वमिहैवावग्रहादीनामनुज्ञाने एकस्मिन्नुपयोगबहुता श्रुतेER Sभिहितैव, इति 'पइवत्थुमसंखेज-' इत्यादि सिद्धसाधनमेव, इति परेणोक्ते सत्याह- 'तमणेगेत्यादि । तद् बहु-बहुविधादिरूपं वस्तु
नोऽनेकपर्यायाणां सामान्यरूपतया ग्रहणमात्रमेव ज्ञाने उपयोगयोग्यतामात्रव्यवस्थापनमेव, एकस्मिस्तु वस्तुन्येककालमुपयोगानेकता कापि नास्ति, क्रमेणैवोपयोगानां भावादिति ।। २४३८।। ___ यदुक्तम्-'तमणेगग्गहणं चिय' इति, तदुपजीव्य परः पाह
समयमणेगग्गहणं जइ सीओसिणदुगम्मि को दोसो ?। केण व भणियं दोसो उवओगदुगे वियारोऽयं ॥२४३९॥ यद्याचार्य ! समकं युगपदनेकेषामर्थानां ग्रहणं त्वयाप्यनुज्ञायते तदा शीतोष्णद्वये गृह्यमाणे को दोषः, येन गङ्गाभ्युपगमो दृष्यते । मूरिराह- 'केण वेत्यादि केन पुनर्भणितम्- 'हन्त ! यत् समकमनेकार्थग्रहणे दोषः १, गृह्यन्ते युगपदपि सामान्यरूपतया सेना-वनग्राम-नगरादिवदनेकेऽर्था इति, एतद् न निवारयामो वयमित्यर्थः, केवलमिहोपयोगद्वये विचारोऽयं प्रस्तुतः । स च उपयोग एकदा एक एव भवति, न त्वनेक इति ॥ २४३९ ॥
पुनरपि परमश्नमाशङ्कयोत्तरमाह
समयमणेगग्गहणे एगाणेगोवओगभेओ को ? । सामण्णमेगजोगो खधावारोवओगो व्व ॥ २४४०॥
RA९७७॥
१ गाथा ७६० । २ बहु-बहुविधादिग्रहणे ननूपयोगबहुता श्रुतेऽभिहिता । तदनेकग्रहणमेवोपयोगानेकता नास्ति ॥ २४३८ ॥
२ समकमनेकग्रहणं यदि शीतोष्णद्विके को दोषः । केन वा भणितं दोष उपयोगहिके विचारोऽयम् ॥ २५३९ ॥ ३ समकमनेकग्रहण एकानेकोपयोगभेदः कः ? । सामान्यमेकयोगः स्कन्धावारोपयोग इव ॥ २४४० ॥
Jan Education Intera
For Personal and Price Use Only
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202