Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
वृहदा
॥९७८
खंधारोऽयं सामण्णमेत्तमेगोवओगया समयं । पइवत्थुविभागो पुण जो सोऽणेगोवओग ति ॥ २४४१॥
ननु समकं युगपदनेकार्थग्रहणेऽभ्युपगम्यमाने कोऽयमेकानेकोपयोगभेदो नाम, येनोच्यते- 'उवओगाणेगया नत्थि' इति । अत्रोत्तरमाह- 'सामण्णमेगजोगो ति यः सामान्योपयोगः स एकोपयोगोऽभिधीयते, स्कन्धावारोपयोगवदिति दृष्टान्तः। अमुमेवार्थ स्पष्टयति- 'खंधारोऽयमित्यादि' समकं युगपदेव 'स्कन्धावारोऽयम्' इत्येवं यत् सामान्य सामान्यमात्रग्राहको य उपयोग इत्यर्थः, स एकोपयोगता भण्यते । यः पुनः प्रतिवस्तु 'एते हस्तिनः, अमी अश्वाः, इमे रथाः, एते पदातयः, एते खड्ग-कुम्भादयः, शिरस्त्राणकवचादयः, पट-कुटिकाः, ध्वजाः, पताका, ढक्का-शह-काहलादयः, करभ-रासभादयश्च' इत्यादिको विभागो भेदाध्यवसाय: सोऽनेकोपयोग इति ॥ २४४० ॥ २४४१॥
आह- एवमेकानेकोपयोगभेदे भवद्भिर्युगपत् किं निषिध्यते ? इत्याह
ते च्चिय न संति समयं सामण्णाणेगगहणमविरुद्धं । एगमणेगं पि तयं तम्हा सामण्णभावेणं ॥ २४४२॥
त एवानेकोपयोगाः समकं युगपद् न सन्ति न भवन्तीति निषिध्यन्तेऽस्माभिः । यत्तु सामान्येनानेकेषामर्थानां युगपद् ग्रहणं तदविरुद्धमेव । 'तम्ह त्ति' तस्माद् युगपदनेकोपयोगनिषेधेन किमुक्तं भवति इत्याह- 'एगमणेगं पीत्यादि' यदिदं स्कन्धावारागुपयोगे युगपदनेकार्थग्रहणमस्माभिरनुज्ञायते 'तयं ति' तदनेकमप्यनेकार्थग्रहणमपि सदित्यर्थः, 'एगं ति'- एकमेव तत्त्वत एकार्थग्रहणमेवेत्यर्थः । केन ? इत्याह- 'सामण्णभावेणं ति' सामान्यरूपतयेत्यर्थः । अयमत्र तात्पर्यार्थः- यदनेकार्थग्रहणमनुज्ञायते तत् सामान्यमेव रूपमाश्रित्य, विशेषरूपतया त्वनेकार्थग्रहणं नास्त्येव, एकस्मिन् काल एकस्यैव विशेषोपयोगस्य सद्भावादिति ॥२४४२॥
अमुमेवार्थ प्रकृते योजयन्नाह--
उसिणेयं सीयेयं न विभागो नोवओगद्गमित्थं । होज्ज समं दुगगहणं सामण्णं वेयणा मे त्ति ॥२४४३॥ 'उष्णेयं शीतेयं वेदना' इत्येवं योऽसौ विभागो भेदोऽसौ नेष्ट:- शीतोष्णविभागे शीतोष्णविशेषरूपतया युगपद् ग्रहणं |
हणमविरुद्धं । एगमभिः । यत्तु सामान्य
यदिदं
॥९७८॥
, स्कन्धावारोऽयं सामान्षमात्रमेकोपयोगता समकम् । प्रतिवस्तुविभागः पुनयः सोऽनेकोपयोग इति ।। २५४१॥ ३ गाथा २४१८।। ३ त एव न सन्ति समकं सामान्यानेकप्रहणमविरुद्धम् । एकमनेकमपि तत् तस्मात् सामान्यभावेन ॥ २४१२ ॥ ५ ष्णेयं शीतेयं न विभागो नोपयोगद्विकामत्वम् । भवेत् समं द्विकपदणं सामान्यं वेदना ममेति ॥ २४४३ ॥
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202