Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 177
________________ बृहद्वत्तिः । Re कालमेव विध्यते, किन्तु कालभेदेन, उपर्युपरितनेऽविद्वेग्धोऽधोवर्तिनः पत्रस्य वेधार्यागात् , अथ च वेधकर्ता युगपद् विहितमे-- विशेषा. व वेधं मन्यते, तद्वेधनकालभेदस्य सूक्ष्मत्वेन दुर्लक्षत्वात् । यथा वा तत् प्रसिद्धमलातचक्रं कालभंदेन दिक्षु भ्रमदपि भ्रमणकालभेदस्य ॥९७५॥ सूक्ष्मत्वेन दुरवगमत्वाद् निरन्तरभ्रमणमेव लक्ष्यते । एवमिहापि शीतोष्णक्रियानुभवकालभेदस्य सूक्ष्मत्वेन दुरवसेयत्वाद् युगपदिव तदनुभवं मन्यते भवानिति ।। २४३३ ॥ मनोऽपि शिरः पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च युगपद् न संबध्यते किन्तु क्रमेणैव, केवलमाशुचारित्वेन सूक्ष्मत्वेन च वस्य क्रमसंबन्धो न लक्ष्यत इति दर्शयन्नाह 'चित्तं पि नेंदियाइं समेइ सममह य खिप्पचारि त्ति । समयं व सुक्कसक्कुलिदसणे सव्योवलद्धित्ति ॥२४३४॥ चित्तमपि च नैवन्द्रियाणि सममेव समेति- मनोऽपि नैवेन्द्रियैः सह युगपत् संवध्यत इत्यर्थः । उपलक्षणत्वाद् नापि शिर:पादादिभिः स्पर्शनेन्द्रियदेशैयुगपत् संबध्यते, अथ च क्षिपचारि शीघ्रसंचरणशीलं तदिति कृत्वा समकमिव युगपदिव 'सर्वत्र संबद्ध लक्ष्यते' इति शेषः । दृष्टान्तमाह-- 'समयं वेत्यादि'। 'समयं वा' इत्येतदनन्तरं योजितमप्यावृत्त्या पुनरपीह योज्यते । तत्र वाशब्दो यथार्थे । यथाशब्दश्च दृष्टान्तोपन्यासार्थे । यथा शुष्कशष्कुलिकादशने सर्वेषामपि शकुलिकागतरूप-रस-गन्ध-स्पर्श-शब्दानामुपलब्धिः सर्वोपलब्धिरसमकं प्रवृत्तापि समकं लक्ष्यते तथाऽत्रापि मनः शिर-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि युगपत् संबध्यमानं लक्ष्यत इत्यर्थः । इदमत्र हृदयम्- इह दीर्घा शुष्का च शकुलिका कस्यचिद् भक्षयतस्तद्रूपं चक्षुषा वीक्षमाणस्य रूपज्ञानमुत्पद्यते, तद्गन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम् , तद्रसं च रसनयाऽऽस्वादयतो रसज्ञानम् , तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानम् , चर्वणोत्थं तच्छब्दं च भृण्वतःशब्दज्ञानमुपजायते । एतानि च पश्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा सांकर्यादिदोषप्रसङ्गात् , मत्यादिज्ञानोपयोगकाले चावध्यायुपयोगस्यापि प्राप्तः, एकं च घटादिकमर्थ विकल्पयतोऽनन्तानामपि घटाद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच्च । न चैतदस्ति । ततः क्रमेण जायमानान्यप्येतानि ज्ञानानि प्रतिपत्ता 'युगपदुत्पद्यन्ते' इति मन्यते, समया-ऽऽवलिकादिकालविभागस्य सूक्ष्मत्वात् । एवमिहापि शिरः-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि मनः प्रतिपत्ता युगपत् संवध्यमानमध्यवस्यति । न तु तत्वतोऽसौ मनसः खभावः, तथा चोक्तम्- “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति । यदि चोक्तन्यायेन सर्वेन्द्रिय १ चित्तमपि नेन्द्रियाणि समेति सममथ च क्षिप्रचारीति । समकमिव शुष्कशष्कुलदिशने सर्वोपलब्धिरिति ॥ २४३५ ॥ २ गौतमभाष्ये १,१६॥ ॥९७५॥ Jan Education Internat For Personal and Price Use Only

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202