Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 165
________________ विशेषा. ॥९६३॥ इत्यस्मिन्नपि सूत्रे न नारकादेः सर्वोच्छेदः प्रतिपाद्यते । इति निर्मूल एव निजाशुभकर्मविपाकजनितस्तवैप व्यामोह इति ॥२३९५ ॥ २३९६ ॥ अथ पराशङ्कापरिहारार्थमाह अहव समाणुप्पत्ती समाणसंताणओ मई होज्जा । को सव्वहा विणासे संताणो किंव सामण्णं ॥२३९७॥ अथवैवंभूता मतिः परस्य भवेद् यदुत- नारकादीनां प्रतिसमयमपरापरसमानक्षणोत्पत्तिर्भवति । ततस्तया समानक्षणोस्पच्या यः समानक्षणसंततिरूपः संतानस्तस्मात् संतानात् संतानमाश्रित्य नारकादेः कथञ्चिद् ध्रौव्यमन्तरेणापि प्रथम-द्वितीयादिसमयोत्पन्नविशेषणमुपपद्यत एव । अत्रोत्तरमाह- को सबहेत्यादि । ननु सर्वथा विनाशे समुच्छेदेङ्गीक्रियमाणे कः कस्य संतानः, किं वा कस्य समानम् ? इति निर्निबन्धनमेवेदमुच्यते । न हि निरन्वयविनाशेऽवस्थिताः केचनापि नारकादिक्षणाः सन्ति, यानाश्रित्येदमुच्यते- 'अयमेषां सन्तानः, इदं चास्य समानम्' इति ।। २३९७ ।। किश्च, संताणिणो न भिण्णो जइ संताणो न नाम संताणो। अह भिण्णो न क्खणिओ खणिओ वा जइ न संताणो ॥२३९८॥ यदि सन्तानिभ्यो न भिन्नः किन्त्वभिन्नः संतानः, तर्हि न नामासौ संतानः, संतानिभ्योऽनर्थान्तरभूतत्वात् , तत्स्वरूपवत् । अथ संतानिभ्यो भिन्नः संतानः, तर्हि क्षणिकोऽसौ नेष्टव्यः, अवस्थितत्वाभ्युपगमात् । अथ क्षणिकोऽसाविष्यते, तर्हि नासौ संतानः, संतानिवत् । ततस्त एव संतानाभावपक्षोक्ता दोषा इति । तदेवं सर्वथोच्छेदेऽभ्युपगम्यमाने संतान उत्पद्यत इति भावितम् ।। २३९८ ॥ ' अथ यदुक्तम्- किं व सामण्ण' इति । तद्भावनार्थमाहपुव्वाणुगमे समया हुज्ज न सा सव्वहा विणासम्मि। अह सा न सवनासो तेण समं वा नणु खपुप्फं॥२३९९॥ १ अथवा समानोत्पत्तिः समानसंतानतो मतिभवेत् । कः सबंथा विनाशे संतानः किंवा सामान्यम् ? ॥ २३९७ ॥ २ संतानिनो न भिन्नो यदि संतानो न नाम संतानः । अथ भिन्नो न क्षणिकः क्षणिको वा यदि न संतानः ॥ २३९८ ॥ ३ गाथा २३९७। ४ पूर्वानुगमे ससता भवेद् न सा सर्वथा विनासे । अथ सा न सर्वनाशस्तेन समं वा ननु खपुष्पम् ॥ २३९५॥ ९६३॥ For Personal and Price Use Only Haww.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202