________________
विशेषा. ॥९६३॥
इत्यस्मिन्नपि सूत्रे न नारकादेः सर्वोच्छेदः प्रतिपाद्यते । इति निर्मूल एव निजाशुभकर्मविपाकजनितस्तवैप व्यामोह इति ॥२३९५ ॥ २३९६ ॥
अथ पराशङ्कापरिहारार्थमाह
अहव समाणुप्पत्ती समाणसंताणओ मई होज्जा । को सव्वहा विणासे संताणो किंव सामण्णं ॥२३९७॥
अथवैवंभूता मतिः परस्य भवेद् यदुत- नारकादीनां प्रतिसमयमपरापरसमानक्षणोत्पत्तिर्भवति । ततस्तया समानक्षणोस्पच्या यः समानक्षणसंततिरूपः संतानस्तस्मात् संतानात् संतानमाश्रित्य नारकादेः कथञ्चिद् ध्रौव्यमन्तरेणापि प्रथम-द्वितीयादिसमयोत्पन्नविशेषणमुपपद्यत एव । अत्रोत्तरमाह- को सबहेत्यादि । ननु सर्वथा विनाशे समुच्छेदेङ्गीक्रियमाणे कः कस्य संतानः, किं वा कस्य समानम् ? इति निर्निबन्धनमेवेदमुच्यते । न हि निरन्वयविनाशेऽवस्थिताः केचनापि नारकादिक्षणाः सन्ति, यानाश्रित्येदमुच्यते- 'अयमेषां सन्तानः, इदं चास्य समानम्' इति ।। २३९७ ।।
किश्च,
संताणिणो न भिण्णो जइ संताणो न नाम संताणो। अह भिण्णो न क्खणिओ खणिओ वा जइ न संताणो ॥२३९८॥
यदि सन्तानिभ्यो न भिन्नः किन्त्वभिन्नः संतानः, तर्हि न नामासौ संतानः, संतानिभ्योऽनर्थान्तरभूतत्वात् , तत्स्वरूपवत् । अथ संतानिभ्यो भिन्नः संतानः, तर्हि क्षणिकोऽसौ नेष्टव्यः, अवस्थितत्वाभ्युपगमात् । अथ क्षणिकोऽसाविष्यते, तर्हि नासौ संतानः, संतानिवत् । ततस्त एव संतानाभावपक्षोक्ता दोषा इति । तदेवं सर्वथोच्छेदेऽभ्युपगम्यमाने संतान उत्पद्यत इति भावितम् ।। २३९८ ॥ ' अथ यदुक्तम्- किं व सामण्ण' इति । तद्भावनार्थमाहपुव्वाणुगमे समया हुज्ज न सा सव्वहा विणासम्मि। अह सा न सवनासो तेण समं वा नणु खपुप्फं॥२३९९॥
१ अथवा समानोत्पत्तिः समानसंतानतो मतिभवेत् । कः सबंथा विनाशे संतानः किंवा सामान्यम् ? ॥ २३९७ ॥ २ संतानिनो न भिन्नो यदि संतानो न नाम संतानः । अथ भिन्नो न क्षणिकः क्षणिको वा यदि न संतानः ॥ २३९८ ॥ ३ गाथा २३९७। ४ पूर्वानुगमे ससता भवेद् न सा सर्वथा विनासे । अथ सा न सर्वनाशस्तेन समं वा ननु खपुष्पम् ॥ २३९५॥
९६३॥
For Personal and Price Use Only
Haww.jainelibrary.org