________________
Reete
बदतिः।
यदि पूर्वक्षणस्योत्तरक्षणे केनापि रूपेणानुगमोऽन्वयो भवेत् तदा तत्रानुगमे पूर्वोत्तरक्षणयोः समता समानरूपता भवेत् । सर्वथा विशेषा तु सर्वात्मना पूर्वक्षणस्य निरन्वयविनाशे न सा समतोत्तरक्षणस्य युज्यते । अथ सा समता तयोरभ्युपगम्यते, तर्हि तद्रूपस्य कथ-
श्चिदवस्थितत्वाद् न पूर्वक्षणस्य सर्वथा विनाशः । अथ सर्वथा विनाशेऽपि तस्य समताऽभ्युपगम्यते, हन्त ! तर्हि तेन सर्वथाऽभावी॥९६४॥EET
भूतेन पूर्वक्षणेन समं तुल्यं युज्यते यदि, परं खपुष्पम् , सर्वथाभावरूपतया द्वयोरपि तुल्यत्वादिति ॥ २३९९ ॥ किञ्च,
अण्णविणासे अण्णं जइ सरिसं होइ होउ तेलुक्कं । तदसंबद्धं व मई सो वि कओ सब्वनासम्मि ?॥२४००॥
सर्वथा निरन्वयविनाशे घटात् पट इवोत्तरक्षणात् सर्वथाऽन्य एव पूर्वक्षणस्तस्माच्चान्य एवोत्तरक्षणः । ततः सर्वथाऽन्यस्य पूर्वक्षणस्य विनाशे तस्मात् सर्वथान्यदुत्तरक्षणरूपं यदि सदृशं भवतीत्यभ्युपेयते, तर्हि भवतु त्रैलोक्यमपि ततस्तत्सदृशम् , अनन्वयित्वेऽन्यत्वस्य सर्वत्र तुल्यत्वात् । अथ तत् त्रैलोक्यं प्रस्तुतपूर्वक्षणेन सह देशादिव्यवहितत्वादसंबद्धमिति न तत्सदृशम् , उत्तरक्षणस्तु तेन सह संबद्ध इति तत्सदृश इति परस्य मतिः स्यात् । ननु सोऽपि पूर्वोत्तरक्षणयोः संबन्धः पूर्वस्य सर्वथा विनाशे कुतः ?- न कुतश्चिदित्यर्थः, तत्संबन्धाभ्युपगमेऽज्यसंबन्धायोगेनान्वयाभ्युपगमप्रसङ्गादिति भावः ॥ २५०० ॥
अपि च, पर्यनुयुज्महे भवन्तम् । किम् ? इत्याहकिह वा सव्वं खणियं विण्णायं जइ मई सुयाउ त्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥२४०१॥ न उ पइसमयविणासे जेणिविक्कक्खरं चिय पयस्स । संखाईयसामइयं संखिज्जाइं पयं ताई ॥२४०२॥
संखिज्जपयं वकं तदत्थग्गहणपरिणामओ हुज्जा । सव्वक्खणभंगनाणं तदजुत्तं समयनट्ठरस ॥२४०३॥ 'वा' इत्यथवा, पर्यनुयुज्यते भवान् । ननु 'सर्व वस्तु क्षणिकम्' इत्येतत् कथं भवता विज्ञातमिति वक्तव्यम् । श्रुतादिति
, अन्यविनाशेऽन्यद् यदि सदृशं भवति भवतु त्रैलोक्यम् । तदसंबद्धं वा मतिः सोऽपि कुतः सर्वनाशे १ ॥ २४०.॥ २ कथं वा सर्व क्षणिक विज्ञातं यदि मतिः श्रुतादिति । तदसंख्यसमयसूत्रार्थग्रहणपरिणामतो युक्तम् ॥ २४०१ ॥ नतु प्रतिसमयविनाशे येनकेकाक्षरमेव पदस्य । संख्यातीतसामयिक संख्यातानि पदं तानि ॥ २४०२ ।। संख्यातपदं वाक्यं तदर्थग्रहणपरिणामतो भवेत् । सर्वक्षणभज्ञानं तवयुक्तं समयनष्टस्य ॥ २४०३ ॥
||९६४॥
Breleleas