SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥९६५॥ चेत् । ननु तत् श्रुतादर्थविज्ञानमसंख्येयसमयैर्निष्पन्नो यः सूत्रार्थग्रहणपरिणामस्तस्मादेव युक्तम् , न तु प्रतिसमयविनाशे । इदमुक्तं भवति- असंख्येयानेव समयान् यावच्चित्तस्यावस्थाने 'सर्व क्षणिकम्' इति विज्ञानोपयोगो युज्यते, न तु प्रतिसमयोच्छेदे । अत्र बृहदत्तिः । कारणमाह- येन यस्मात् कारणात् पदस्य सावयवत्वात् तत्संबध्येकैकमप्यक्षरं संख्यातीतसामयिकमसंख्यातैः समयैर्निष्पद्यत इत्यर्थः, म तानि चाक्षराणि संख्यातानि समुदितानि पदं भवति । संख्यातैश्च पदैर्वाक्यं निष्पद्यते, तदर्थग्रहणपरिणामाच वाक्यार्थग्रहणपरिणामादित्यर्थः, सर्वक्षणभङ्गज्ञानं भवेत् । तच्चोत्पत्तिसमयानन्तरमेव नष्टस्य समुच्छिन्नस्य मनसोऽयुक्तमेवेति ॥२४०१॥२४०२॥२४०३॥ अन्यदपि क्षणभङ्गवादे यद् नोपपद्यते तद् दर्शयति'तित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । अज्झयणं झाण भावणा य का सव्वनासम्मि ?॥२४०४॥ तृप्तिर्धाणिः, मार्गगमनादिपवृत्तस्य खदः श्रमः, क्लमो ग्लानिः, सादृश्यं साधर्म्यम् , विपक्षो वैधय॑म् , प्रत्ययः प्रत्यभिज्ञानादि, आदिशब्दात खनिहितमत्यनुमार्गण-स्मरणादिपरिग्रहः । अध्ययनं पुनः पुनर्ग्रन्थाभ्यासः, ध्यानमेकालम्बने मनःस्थैर्यम् , भावना पौन:पुन्येनानित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा । एतानि सर्वाण्यप्युत्पत्यनन्तरमेव वस्तुनः सर्वनाशेऽङ्गीक्रियमाणे कथमुपपद्यन्ते ? इति ।। २४०४॥ यथा च नोत्पद्यन्ते तथा दर्शयन्नाह अण्णण्णो पइगासं भुत्ता अंते न सो वि का त्तित्ती? । गतादओ वि एवं इय संववहारवुच्छित्ती॥२४०५॥ 'ग्रसु ग्लसु अदने ग्रसनं ग्रासः कवलक्षेपः, ग्रस्यत इति वा ग्रासः कवलः । ततश्च प्रतिग्रासं प्रतिकवलं भोक्ता देवदत्तः क्षणिकत्वादन्यश्चान्यश्च भवति, भोजनक्रियायाश्चान्ते पर्यन्ते सोऽपि भोक्ता सर्वथा न भवति, भुजिक्रियाविशेषणस्याभावे तद्विशिष्टस्य देवदत्तस्यापि सर्वथोच्छेदात् । ततश्चकस्मिन्नन्त्यकवलप्रक्षेपे का तृप्तिः, भोक्तुश्चाभावात् कस्यासौ तृप्तिः ? । एवमुक्तानुसारेण गन्त्रादीनामपि श्रमायभावः स्वबुद्ध्या भावनीय इति । एवं समस्तलोकव्यवहारोच्छेदप्रसक्तिरिति ॥ २४०५॥ अत्र परःपाह-- समानरबह तृप्तिः श्रमः क्लमः सादृश्य-विपक्ष-प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे ॥२४.४ ॥ २ अन्योऽन्यः प्रतिग्रासं भोक्ताऽन्ते न सोऽपि का तृप्तिः गन्धादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ २४०५ ॥ ॥९६५॥ Jan E inema For Personal and Price Use Only TANTwww.jaineibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy