________________
विशेषा०
॥९६२॥
अह सुत्ताउ त्ति मई सुत्ते नणु सासयंपि निदिदं । वत्थु दबहाए असासयं पज्जयट्ठाए ॥ २३९४ ॥
अथ पूर्वोक्तालापकरूपात् सूत्रात् सूत्रपामाण्यात् प्रतिसमयं सर्वथा वस्तूच्छेदः प्रतिपाद्यत इति तब मतिः। ननु यदि मूत्रं तवह प्रमाणम् , तर्हि सूत्रे द्रव्यार्थतया शाश्वतमपि वस्त्वन्यत्रोक्तमेव, पर्यायार्थतयैव चाशाश्वतम् । तथा च मूत्रम्- "नेरेइया णं भंते ! कि सासया, असासया। गोयमा! सिय सासया, सिय असासया । से केणटेणं? | गोयमा! दबढ़याए सासया, भावट्टयाए असासया" इति ॥ २३९४ ॥
अपिच, ऐत्थ वि न सव्वनासो समयाइविसेसणं जओऽभिहियं । इहरान सम्बनासे समयाइविसेसणं जुत्त॥२३९५॥ को पढमसमयनारगनासे बितिसमयनारगो नाम । न सुरो घडो अभावो व होइ जइ सव्वहा नासो ? ॥२३९६॥
अत्रापि- 'प्रथमसमयनारका व्यवच्छेदं यास्यन्ति' इति सूत्रे न सर्वनाशः सर्वात्मना नाशो गम्यते । कुतः ? इत्याह- यतो यस्मात् समयादिविशेषणमभिहितम् , ततो न सर्वथा नाशोऽत्र गम्यते, किन्तु प्रथमसमयनारका व्यवच्छेत्स्यन्ति । कोऽर्थः । प्रथमसमयनारकत्वेन विनश्यन्ति । एवं द्वितीयादिसमयनारका अपि द्वितीयादिसमयनारकत्वेनैव विनश्यन्ति न तु सर्वथा, द्रव्यार्थतया शाश्वतत्वात् । इतरथा सर्वनाशेऽभिप्रेते प्रथमसमयादिविशेषणं न युक्तं स्यादिति । कथमयुक्तम् ? इत्याह- 'को पढमेत्यादि' प्रथमसमयोत्पन्नानां हि नारकाणां सर्वथा विनाशे को नाम द्वितीय-तृतीयादिसमयनारकः ? । अवस्थितस्यैव हि कस्यचित् प्रथम-द्वितीयतृतीयादिसमयोत्पन्नविशेषणं युज्यते । यदि तु सर्वथा नाशः, तर्हि प्रथमसलयोत्पन्ननारकस्य निरन्वयनाशेन नष्टत्वाद् द्वितीय समयोत्पन्नो नारक इति व्यपदेष्टुं कथं युज्यते, यन्नारकात् सर्वथा विलक्षणत्वादसौ सुरो घटोऽभावो वा नोच्यते ? । सुरादिव्यपदेशे च न द्वितीयादिसमयनारकाः । तस्मात् प्रथम-द्वितीय-तृतीयादिसमयोत्पन्ना इति विशेषणं कथश्चिदवस्थितस्यैव नारकादेयुज्यत
अथ सूत्रादिति मतिः सूत्रे ननु शाश्वतमपि निर्दिष्टम् । वस्तु इयार्थतयाऽशाश्वतं पर्ययार्थतया ॥ २३९४ ॥ २ नैरयिका भगवन् ! किं शाश्वता अशाश्वताः । गौतम ? स्यात् शाश्वताः, स्यादशाश्वताः। तत् केनार्थेन ? । गौतम ! द्रव्यार्थतया शाश्वताः, भावार्थतया अशाश्वताः।
३ अत्रापि न सर्वनाशः समयादिविशेषणं यतोऽभिहितम् । इतरथा न सर्वनाशे समयादिविशेषणं युक्तम् ॥ २३९५ ॥
कः प्रथमसमयनारकनाशे द्वितीयसमयनारको नाम । न सुरो घटोऽभावो वा भवति यदि सर्वथा नाशः ? ।। २३९६ ॥
॥९६२।।
Jan Education
For Personal and Price Use Only