SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥९६२॥ कृतः समुच्छेदवादं प्ररूपयन् काम्पिल्यपुरनगरं राजगृहापरनामकं गतः । तत्र च खण्डरक्षाभिधानाः श्रावका आसन् , ते शुल्कपालाः । तैश्च ते निवाः समागता विज्ञाता मारयितुं चारब्धाः। ततो भीतरश्वमित्रादिभिस्ते प्रोक्ता:- 'वयं न जानीमः- श्रावका यूयम्, तकिमस्मान् श्रमणान् सतो मारयथ?'। ततस्तैरुक्तम्- 'ये श्रमणास्ते युष्पत्सिद्धान्तेन समुच्छिन्नाः, यूयं तु चौराद्यन्यतराः केचि. दिति मारयामः' । ततस्तै तेर्मुक्तो निजाग्रहः, संबुद्धाश्च दत्तमिथ्यादुष्कृता गता गुरुपादमूल इति ॥ २३९० ।। अस्य नियुक्तिगाथाद्यस्य भाष्यम्-- 'नेउणमणुप्पवाए अहिजओ वत्थुमास मित्तस्स । एगसमयाइवोच्छेयसुत्तओ नासपडिवत्ती ॥२३९१॥ उप्पायाणंतरओ सव्वं चिय सव्वहा विणासि त्ति । गुरुवयणमेगनयमयमेयं मिच्छं न सब्वमयं ॥२३९२॥ अनुप्रवादपूर्वमध्यगतं नैपुणं वस्त्वधीयानस्याश्चमित्रस्य पूर्वोक्तादेकसमयादिव्यवच्छेदसूत्राद् नाशप्रतिपत्तिरुत्पन्ना । कोऽर्थः ? इत्याह- 'उत्पादानन्तरमेव सर्व वस्तु सर्वथा विनश्वररूपम्' इत्येवंभूतो बोधः समुत्पन्नः। अत्र प्रतिविधानार्थ गुरुवचनम्- 'ननु प्रतिसमयविनाशित्वं वस्तूनाम्' इत्येतदेकस्यैव क्षणक्षयवादिन ऋजुमूत्रनयस्य मतम् , न तु सर्वनयमतम् , ततो मिथ्यात्वमेवेति।।२३९११॥२३९२॥ कुतः पुनरेतद् मिथ्यात्वम् ? इत्याह__ ने हि सबहा विणासोऽद्यापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥ २३९३ ॥ न हि सर्वथैव वस्तुनो विनाशो युक्तः । क सति ? इत्याह- अद्धापर्यायमात्रनाशे । तत्रेहादा नारकादीनामुत्पत्तिपथमादिसमयः, स एव पर्यायमात्रं तस्य नाशोऽपगमस्तस्मिन् सति । कथंभूतस्य वस्तुनः? इत्याह- स्व-परपर्यायानन्तधर्मकस्य । इदमुक्तं भवति- यस्मिन्नेव समये तद् नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते । अतो यदि नामाद्धापर्यायमात्रमुच्छिन्नम् , ततः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम् , अनन्तपर्यायात्मकस्य वस्तुन एकपर्यायमात्रोच्छेदे सर्वोच्छेदस्य दरविरुद्धत्वात् ? इति ।। २३९३ ॥ अत्र पराभिप्रायमाशङ्कय परिहरति , नैपुणमनुप्रवादेऽधीयानस्य वस्त्वश्वमित्वस्य । एकसमयादिव्यवच्छेदसूत्रतो नाशप्रतिपत्तिः ॥ २३९१ ।। उत्पादानन्तरतः सर्वमेव सर्वथा विनाशीति ! गुरुवचनमकनयमतमेतद् मिथ्या न सर्वमतम् ॥ २३९२ ॥ २ न हि सर्वथा विनाशोदापर्यायमाननाशे । स्व-परपर्यायानन्तधर्मणो वस्तुनो युक्तः ॥ २३९५ ॥ ॥९६ Jain Intera Personal and Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy