________________
विशेषा० ॥९६०॥
PONDITAROOPRADHANDRASAR
PAACHACHICHKOREAK
उवउत्तिओ भयाओ य पव्वण्णा सव्वमयमसग्गाहे। निवखामियाभिगंतुं गुरुमूलं ते पडिकंता ॥२३८८||
सर्वा अप्युक्तार्थाः, सुगमाश्च । नवरं नृपतिना बलभद्रेण 'ते आगताः' इति ज्ञात्वाऽध्याता आहूताः 'के यूयम् ?' इति पृष्टाश्च भणन्ति- 'हे श्रावक ! इत्यादि' । 'नाण-चरियाहिं ति' ज्ञान-क्रियाभ्यां यो भवतामपि 'साधवः' इति विस्रम्भः परस्परं नास्ति स ताभ्यां कथं मम जायते ? । अपिच, किं ते कृत्रिमे ज्ञान-क्रिये चौराणामपि न स्तो- न भवतः ।। इति त्रयस्त्रिंशद्गाथार्थः ॥२३८३॥ २३८४ ॥ २३८५ ॥२३८६ ॥ २३८७ ॥ २३८८॥
॥ इति तृतीयोऽव्यक्ताभिधाननिह्नववादः समाप्तः ॥ अथ चतुर्थवक्तव्यतामाह
वीसा दो वाससया तइया सिद्धिं गयरस वीरस्स। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पन्ना ॥२३८९॥ विंशत्युत्तरं वर्षशतद्वयं तदा सिद्धिं गतस्य वीरस्यासीत् । ततोऽत्रान्तरे सामुच्छेदिकदृष्टिमिथिलापुर्यां समुत्पन्नेति ॥२३८९।। यथोत्पन्ना तथा दर्शयन्नाह
'मिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्ते य । नेउणियाणुप्पवाए रायगिहे खंडरक्खा य ॥२३९०॥
मिथिलानगर्या लक्ष्मीगृहे चैत्ये महागिरिमूरीणां कौण्डिन्यो नाम शिष्यः स्थितः । तस्याप्यश्वमित्रो नाम शिष्योऽनुपवादाभिधानपूर्वे नैपुणिकं नाम वस्तु पठति स्म । तत्र च्छिन्नच्छेदनकनयवक्तव्यतायामालापकाः समायाताः, तद्यथा- "पंडुप्पन्नसमयनेरइया सवे वोच्छिज्जिस्संति, एवं जाव वेमाणिय त्ति, एवं बीयाइसमएसु वि वत्तव्वं"। अत्र तस्य चिकित्सा जाता, तद्यथा- 'प्रत्युत्पन्नसमयनारकाः सर्वेऽपि तावद् व्यवच्छेदं प्राप्स्यन्ति, ततश्च कुतः सुकृत-दुष्कृतकर्मफलवेदनम् , उत्पादानन्तरं सर्वजीवानां नाशात् ?' इति । एवमादि स्वमतिकल्पितं प्ररूपयन् वक्ष्यमाणभाष्ययुक्तिभिर्गुरुणा प्रज्ञाप्यमानोऽपि यावत् कथमपि न प्रज्ञाप्यते तत उद्धाट्य संघबाह्यः
, उपपत्तितो भयाच प्रपन्नाः सर्वमतमसग्राहे । नृपक्षामिता अभिगत्य गुरुमूलं ते प्रतिक्रान्ताः ॥ २३८८ ॥ २ विंशत्या द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य । सामुच्छेदिकदृष्टिमिथिलापुर्यां समुत्पन्ना ॥ २३८९ ॥ ३ मिथिलायां लक्ष्मीगृहे महागिरिः कोण्डन्य अश्वामित्रश्च । नैपुणिकमनुप्रवादे राजगृहे खण्डरक्षाच ॥ २३९०॥ ४ प्रत्युत्पनसमयनैरपिकाः सर्वे व्यवच्छत्स्वन्ति, एवं यावद् वैमानिका इति; एवं द्वितीयादिसमयेष्वपि वक्तव्यम् ।
रा
९६०॥
Goluwaoncreenieshe
For Personal and
Use Only