Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 166
________________ Reete बदतिः। यदि पूर्वक्षणस्योत्तरक्षणे केनापि रूपेणानुगमोऽन्वयो भवेत् तदा तत्रानुगमे पूर्वोत्तरक्षणयोः समता समानरूपता भवेत् । सर्वथा विशेषा तु सर्वात्मना पूर्वक्षणस्य निरन्वयविनाशे न सा समतोत्तरक्षणस्य युज्यते । अथ सा समता तयोरभ्युपगम्यते, तर्हि तद्रूपस्य कथ- श्चिदवस्थितत्वाद् न पूर्वक्षणस्य सर्वथा विनाशः । अथ सर्वथा विनाशेऽपि तस्य समताऽभ्युपगम्यते, हन्त ! तर्हि तेन सर्वथाऽभावी॥९६४॥EET भूतेन पूर्वक्षणेन समं तुल्यं युज्यते यदि, परं खपुष्पम् , सर्वथाभावरूपतया द्वयोरपि तुल्यत्वादिति ॥ २३९९ ॥ किञ्च, अण्णविणासे अण्णं जइ सरिसं होइ होउ तेलुक्कं । तदसंबद्धं व मई सो वि कओ सब्वनासम्मि ?॥२४००॥ सर्वथा निरन्वयविनाशे घटात् पट इवोत्तरक्षणात् सर्वथाऽन्य एव पूर्वक्षणस्तस्माच्चान्य एवोत्तरक्षणः । ततः सर्वथाऽन्यस्य पूर्वक्षणस्य विनाशे तस्मात् सर्वथान्यदुत्तरक्षणरूपं यदि सदृशं भवतीत्यभ्युपेयते, तर्हि भवतु त्रैलोक्यमपि ततस्तत्सदृशम् , अनन्वयित्वेऽन्यत्वस्य सर्वत्र तुल्यत्वात् । अथ तत् त्रैलोक्यं प्रस्तुतपूर्वक्षणेन सह देशादिव्यवहितत्वादसंबद्धमिति न तत्सदृशम् , उत्तरक्षणस्तु तेन सह संबद्ध इति तत्सदृश इति परस्य मतिः स्यात् । ननु सोऽपि पूर्वोत्तरक्षणयोः संबन्धः पूर्वस्य सर्वथा विनाशे कुतः ?- न कुतश्चिदित्यर्थः, तत्संबन्धाभ्युपगमेऽज्यसंबन्धायोगेनान्वयाभ्युपगमप्रसङ्गादिति भावः ॥ २५०० ॥ अपि च, पर्यनुयुज्महे भवन्तम् । किम् ? इत्याहकिह वा सव्वं खणियं विण्णायं जइ मई सुयाउ त्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥२४०१॥ न उ पइसमयविणासे जेणिविक्कक्खरं चिय पयस्स । संखाईयसामइयं संखिज्जाइं पयं ताई ॥२४०२॥ संखिज्जपयं वकं तदत्थग्गहणपरिणामओ हुज्जा । सव्वक्खणभंगनाणं तदजुत्तं समयनट्ठरस ॥२४०३॥ 'वा' इत्यथवा, पर्यनुयुज्यते भवान् । ननु 'सर्व वस्तु क्षणिकम्' इत्येतत् कथं भवता विज्ञातमिति वक्तव्यम् । श्रुतादिति , अन्यविनाशेऽन्यद् यदि सदृशं भवति भवतु त्रैलोक्यम् । तदसंबद्धं वा मतिः सोऽपि कुतः सर्वनाशे १ ॥ २४०.॥ २ कथं वा सर्व क्षणिक विज्ञातं यदि मतिः श्रुतादिति । तदसंख्यसमयसूत्रार्थग्रहणपरिणामतो युक्तम् ॥ २४०१ ॥ नतु प्रतिसमयविनाशे येनकेकाक्षरमेव पदस्य । संख्यातीतसामयिक संख्यातानि पदं तानि ॥ २४०२ ।। संख्यातपदं वाक्यं तदर्थग्रहणपरिणामतो भवेत् । सर्वक्षणभज्ञानं तवयुक्तं समयनष्टस्य ॥ २४०३ ॥ ||९६४॥ Breleleas

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202