Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 168
________________ विशेषा० ॥९६६॥ Jain Educator Intern 'जेणं चिय पइगासं भिन्ना तित्ती अओ चिय विणासो । तित्तीए तित्तस्स य एवं चिय सव्वसंसिद्धी ॥२४०६ ॥ येनैव यत एव प्रतिग्रासमन्योऽन्यश्च भोक्ता भवति, अपरापरा च तृप्तिमात्रा भवति, अत एव तृप्तेः, तृप्तस्य च प्रतिक्षणं विनाशोऽभ्युपगम्यतेऽस्माभिः, विशेषणभेदे विशेष्यस्याप्यवश्यं भेदात्, अन्यथा विशेषणभेदस्याप्ययोगात् । प्रतिक्षणविनाशित्वे तृप्त्यायोगोऽभिहित एवेति चेत् । तदयुक्तम् । कुतः । इत्याह- 'एवं विय सव्वसंसिद्धी त्ति' एवमेव प्रतिक्षणविनाशित्व एव सर्वस्यापि तृप्ति-श्रम-क्लमादेर्लोकव्यवहारस्य संसिद्धिः । इदमुक्तं भवति- तृप्त्यादिवासनावासितः पूर्वपूर्वक्षणादुत्तरोत्तरक्षणः समुत्पद्यते तावत् यावत् पर्यन्त उत्कर्षवन्तस्तृप्त्यादयो भवन्ति । एतच्च क्षणिकत्व एवोपपद्यते, न नित्यत्वे । नित्यस्याप्रच्युता नुत्पन्न- स्थिरैकस्वभावत्वेन सर्वदैव तृप्त्यादिसद्भावात् सर्वदैव तदभावाद् वेति ॥ २४०६ ।। अत्रोत्तरमाह व्विसव्वनासे वुड्ढी तित्ती य किंनिमित्ता तो? । अह सावि तेऽणुवत्तइ सव्वविणासो कहं जुत्तो ? ॥२४०७ ॥ 'तो त्ति' यद्येवम्, ततः पूर्वक्षणस्य सर्वथा विनाश उत्तरोत्तरक्षणेषु तृप्त्यादीनां या क्रमेण दृद्धिरुत्कर्षवती पर्यन्ते तृप्तिः श्रमादिसंभूतिश्च सा किंनिमित्ता किंकारणा ? इति वक्तव्यम् ? । पूर्वपूर्वक्षणेनोत्तरोत्तरक्षणस्य या तृप्त्यादिवासना जन्यते तन्निमिति चेत् । न, तस्यास्तदनर्थान्तरत्वे पूर्वपूर्वक्षणनाशे नाशात् । अथोत्तरोत्तरक्षणेषु सानुवर्तत एवेति ते तवाभिप्रायः तर्हि पूर्व पूर्वक्षणस्य सर्वविनाशः कथं युक्तो वक्तुम्, तदनर्थान्तरभूततृप्त्यादिवासनायाः समनुवर्तनात् ? इति ।। २४०७ ॥ सर्वस्य क्षणिकत्वे दूषणान्तरमप्याह- " दिक्खा व सव्वनासे किमत्थमहवा मई विमोक्खत्थं । सो जइ नासो सव्वस्स तो तओ किं व दिक्खाए ? ॥२४०८ ॥ दीक्षा वा क्षणानां सर्वनाशे किमर्थमिति वाच्यम् ?- निरर्थिकेयमिति भावः । अथ मोक्षार्थं दीक्षेति परस्य मतिः, तत्रापि वक्तव्यम् - स मोक्षो नाशरूपो वाऽभ्युपगम्यते, अनाशरूपो वा ? । तत्र 'सो जइ नासो त्ति' स मोक्षो यदि नाशरूप इति पक्षः, 'सव्वस्स १ येनैव प्रतिग्रासं भिन्ना तृप्तिरत एव विनाशः । तृप्तेस्तृप्तस्य चैत्रमेव सर्वसंसिद्धिः ॥ २४०६ ॥ २ पूर्वसर्वनाश वृद्धिस्तृप्तिश्च किंनिमित्ता ततः ? अथ सापि तेऽनुवर्तते सर्वविनाशः कथं युक्तः १ ॥ २४०७ ॥ दीक्षा वा सर्वनाशे किमर्थमथवा मतिर्विमोक्षार्थम् । स यदि नाशः सर्वस्व ततः सकः किं वा दीक्षया ? ॥ २४०४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९६६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202