Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 171
________________ See विशेषा. ॥९६९॥ 'नवित्यादि' नन्वहो ! मृदूपतयाऽवस्थितस्यैव घटद्रव्यस्य भूत-भविष्यदनन्तपर्यायापेक्षया तदपि पर्यायान्तरं पर्यायविशेष एव कपालानि, न पुनस्तदानीं घटस्य सर्वथा विनाशः, मृदूपताया अप्यभावप्रसङ्गात् , तथा च कपालानाममृदूपतापरित्यसिद्धिः पर्यन्ते वृहतिः । सर्वनाशस्येति ॥ २४१३॥ भवतु वा तत्सिद्धिः, तथापि नातः सर्वव्यापिनी क्षणिकत्वसिद्धिरिति दर्शयन्नाह 'जेसिं व न पज्जते विणासदरिसणमिहंबराईणं । तन्निच्चब्भुवगमओ सव्वक्खणविणासिमयहाणी ॥२४१४॥ घटादीनां तावत् पर्यन्ते सर्वनाशदर्शनात् प्रसङ्गेनादित एव प्रतिक्षणनश्वरता साधयति भवान् , ततो येषामम्बरादीनां व्योमकाल-दिगादिना पर्यन्ते विनाशदर्शनं कदाचिदपि नास्ति, तेष्वस्मात् प्रसङ्गसाधनात् प्रतिसमयनश्वरत्वं न सिध्यति । ततस्तेषां नित्यत्वमेवाभ्युपगन्तव्यम् । तन्नित्यत्वाभ्युपगमे च ' सर्व क्षणिकम् ' इति व्याप्तिपरं यद् मतं भवतस्तस्य हानिरघटमानतैव मानोतीति ।। २४१४॥ भनयन्तरेणापि स्थविरा अश्वमित्र शिक्षयन्ति । कथम् ? इत्याह पज्जायनयमयमिणं जं सव्वं विगम-संभवसहावं । दव्वट्ठियस्स निच्चं एगयरमयं च मिच्छत्तं ॥२४१५॥ पर्यायवादिन एव नयस्येदं मतं यत् त्वं ब्रूषे- सर्वमेव त्रिभुवनान्तरर्गतं वस्तु विगम-संभवस्वभावं- प्रतिक्षणमुत्पद्यते विनश्यति चेत्यर्थः । द्रव्यमेवार्थों यस्य न पर्याया स द्रव्यार्थिकस्तस्य तु द्रव्यार्थिकनयस्य तदेव सर्व वस्तु नित्यं मतम् । एवं च स्थिते यद् भवानेकतरस्यैव पर्यायनयस्य प्रतिक्षणविनश्वरत्वलक्षणं मतमभ्युपगच्छति तद् मिथ्यात्वमेवेति मुञ्चेदमिति भावः ॥ २४१५॥ किमित्येतद् मिथ्यात्वम् ? इत्याह जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । ठिइ-विभव-भंगरूवं निच्चानिच्चाइ तोऽभिमयं ॥२४१६॥ यद् यस्माद् नैकान्ततः पर्यायमयं, नाप्येकान्तेन द्रव्यरूपम्, किन्त्वनन्तपर्यायं स्थित्यु-त्पाद-विनाशरूपत्वाद् भू-भवन-विमान. येषां वा न पर्यन्ते विनाशदर्शनमिहाम्बरादीनाम् । तमित्याभ्युपगमतः सर्वक्षणविनाशिमतहानिः ॥ २४१४ ॥ H९६९॥ २ पर्यायनयमतमिदं यत् सर्व विगम संभवस्वभावम् । द्रव्यार्थिकस्य नित्यमेकतरमतं च मिथ्यात्वम् ॥ २४१५॥ ३ पदनन्तपर्यवमयं वस्तु भुवनमिव चित्रपरिणामम् । स्थिति-विभव-भारूप निमानियादि ततोऽभिमतम् ॥ २१॥

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202