Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 170
________________ बृहद्वत्तिः । विशेषा० ॥९६८॥ विनाशस्य निर्हेतुकत्वं प्रागत्रैव दार्शतम् । ततो निर्हेतुकोऽसौ भवन्नादित एव भवतु, अन्यथा पर्यन्तेऽपि तदभवनमसङ्गादिति पर्यन्त नाशदर्शनाद् हेतोः क्षणिकत्वसिद्धिः। अत्र मूरिः प्राह-- नन्वेतस्मादेव पर्यन्ते नाशदर्शनलक्षणादेतोरस्माभिरेतच्छक्यते वक्तुम् । किम् ? इत्याह-न क्षणिकं न प्रतिक्षणं वस्तु विनश्यतीत्यर्थः, पर्यन्त एव तन्नाशोपलब्धेः, घटादिवत् । न च युक्तिवाधितत्वाद् भ्रान्तेयमुपलब्धिरिति शक्यते वक्तुम् , सर्वेषां सर्वत्रेत्यमेव प्रवर्तनात् , युक्तीनामेवानया बाधनात् , शून्यवादियुक्तिवादिति ॥ २४११॥ ___ यदि पुनरादित एव वस्तूनां विनाशः स्यात् तदा किं भवेत् ? इत्याहईहराइउ च्चिय तओ दीसेजंते व्व कीस व समाणो । सव्वविणासे नासो दीसइ अंते न सोऽन्नत्थ ? ॥ २४१२ ॥ __ इतरथा यदि प्रतिक्षणं नाशो भवेत् तदा यथा पर्यन्ते सर्वेणापि भवनसौ दृश्यते, तथा आदित एवादि-मध्येषु सर्वत्र तकोऽसौ नाशो दृश्येत । अथ पर्यन्तेऽसौ दृश्यते नादि-मध्येषु, किं कुर्मः । तर्हि प्रष्टव्योऽसि । किम् ? इत्याह- 'कीस वेत्यादि' किमिति चासौ नाशो वस्त्वभावरूपतया सर्वत्र समानो निरवशेषस्वरूपोऽपि सन् सर्वविनाशे मुद्गरादिना विहिते दृश्यत उपलक्ष्यतेऽन्ते पर्यन्ते, न पुनरन्यत्रादि-मध्येषु सर्वत्र भवताऽभ्युपगतोऽप्यसो भवन्नुपलक्ष्यत इत्यत्र कारणं वाच्यम् , न पुनः पादप्रसारिका श्रेयस्करीति भावः ।। २४१२॥ __ अपि च-पर्यन्ते नाशदर्शनरूपस्य हेतोः सिद्धत्वमभ्युपगम्य दूषणमुक्तं यावता जैनानां हेतुरप्ययमसिद्धः, पर्यन्तेऽपि घटादीनां सर्वथा नाशानभ्युपगमादिति दर्शयन्नाहअंते व सब्वनासो पडिवण्णो केण जदुवलडीओ । कप्पेसि क्खणविणासं नणु पज्जायतरं त पि ॥ २४१३ ॥ यदिवा, भोः क्षणभङ्गवादिन् ! अन्ते पर्यन्तेऽपि मुद्रादिसंनिधाने घटादिवस्तुनः सर्वनाशः सर्वथा विनाशः केन प्रतिवादिना जैनेनाभ्युपगतः, यदुपलब्धेर्यदर्शनावष्टम्भेन त्वं क्षणभङ्गरूपं प्रतिक्षणविनाशं कल्पयसि घटादेः ? । यदि मुद्रादिसंनिधाने सर्वविनाशस्तस्य जैनै भ्युपगम्यते, तर्हि तदवस्थायां घटो न दृश्यते, कपालान्येव च दृश्यन्त इत्येतत् किमिष्यते ? इत्याह-- १ इतरथादित एव सको रश्येतान्ते इव कस्माद् वा समानः । सर्वविनाश नाशो दश्यतेऽन्ते न सोऽन्यत्र ? ॥ २४१२॥ २ अन्ते वा सर्वनाशः प्रतिपन्नः केन यदुपलब्धेः । कल्पयसि क्षणविनाशं ननु पर्यायान्तरं तदपि ॥ २४१३ ॥ ९६८॥

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202