________________
बृहद्वत्तिः ।
विशेषा० ॥९६८॥
विनाशस्य निर्हेतुकत्वं प्रागत्रैव दार्शतम् । ततो निर्हेतुकोऽसौ भवन्नादित एव भवतु, अन्यथा पर्यन्तेऽपि तदभवनमसङ्गादिति पर्यन्त नाशदर्शनाद् हेतोः क्षणिकत्वसिद्धिः।
अत्र मूरिः प्राह-- नन्वेतस्मादेव पर्यन्ते नाशदर्शनलक्षणादेतोरस्माभिरेतच्छक्यते वक्तुम् । किम् ? इत्याह-न क्षणिकं न प्रतिक्षणं वस्तु विनश्यतीत्यर्थः, पर्यन्त एव तन्नाशोपलब्धेः, घटादिवत् । न च युक्तिवाधितत्वाद् भ्रान्तेयमुपलब्धिरिति शक्यते वक्तुम् , सर्वेषां सर्वत्रेत्यमेव प्रवर्तनात् , युक्तीनामेवानया बाधनात् , शून्यवादियुक्तिवादिति ॥ २४११॥ ___ यदि पुनरादित एव वस्तूनां विनाशः स्यात् तदा किं भवेत् ? इत्याहईहराइउ च्चिय तओ दीसेजंते व्व कीस व समाणो । सव्वविणासे नासो दीसइ अंते न सोऽन्नत्थ ? ॥ २४१२ ॥
__ इतरथा यदि प्रतिक्षणं नाशो भवेत् तदा यथा पर्यन्ते सर्वेणापि भवनसौ दृश्यते, तथा आदित एवादि-मध्येषु सर्वत्र तकोऽसौ नाशो दृश्येत । अथ पर्यन्तेऽसौ दृश्यते नादि-मध्येषु, किं कुर्मः । तर्हि प्रष्टव्योऽसि । किम् ? इत्याह- 'कीस वेत्यादि' किमिति चासौ नाशो वस्त्वभावरूपतया सर्वत्र समानो निरवशेषस्वरूपोऽपि सन् सर्वविनाशे मुद्गरादिना विहिते दृश्यत उपलक्ष्यतेऽन्ते पर्यन्ते, न पुनरन्यत्रादि-मध्येषु सर्वत्र भवताऽभ्युपगतोऽप्यसो भवन्नुपलक्ष्यत इत्यत्र कारणं वाच्यम् , न पुनः पादप्रसारिका श्रेयस्करीति भावः ।। २४१२॥ __ अपि च-पर्यन्ते नाशदर्शनरूपस्य हेतोः सिद्धत्वमभ्युपगम्य दूषणमुक्तं यावता जैनानां हेतुरप्ययमसिद्धः, पर्यन्तेऽपि घटादीनां सर्वथा नाशानभ्युपगमादिति दर्शयन्नाहअंते व सब्वनासो पडिवण्णो केण जदुवलडीओ । कप्पेसि क्खणविणासं नणु पज्जायतरं त पि ॥ २४१३ ॥
यदिवा, भोः क्षणभङ्गवादिन् ! अन्ते पर्यन्तेऽपि मुद्रादिसंनिधाने घटादिवस्तुनः सर्वनाशः सर्वथा विनाशः केन प्रतिवादिना जैनेनाभ्युपगतः, यदुपलब्धेर्यदर्शनावष्टम्भेन त्वं क्षणभङ्गरूपं प्रतिक्षणविनाशं कल्पयसि घटादेः ? । यदि मुद्रादिसंनिधाने सर्वविनाशस्तस्य जैनै भ्युपगम्यते, तर्हि तदवस्थायां घटो न दृश्यते, कपालान्येव च दृश्यन्त इत्येतत् किमिष्यते ? इत्याह--
१ इतरथादित एव सको रश्येतान्ते इव कस्माद् वा समानः । सर्वविनाश नाशो दश्यतेऽन्ते न सोऽन्यत्र ? ॥ २४१२॥ २ अन्ते वा सर्वनाशः प्रतिपन्नः केन यदुपलब्धेः । कल्पयसि क्षणविनाशं ननु पर्यायान्तरं तदपि ॥ २४१३ ॥
९६८॥