________________
बहाव
विशेषा
बृहद्वत्तिः ।
॥९६७॥
तो तउत्ति' ततस्तर्हि तकोऽसौ मोक्षः सर्वस्यापि वस्तुनः स्वरसतः प्रयत्नमन्तरेणापि त्वदभिप्रायेण सिद्ध एव, कि दीक्षाप्रयत्नेन ? इति ।। २४०८॥
अथानाशरूपो नित्यो मोक्षस्तत्राहअह निच्चो, न क्खणियं तो सव्वं अह मई ससंताणो। अहउ त्ति तओ दिक्खा निस्संताणस्स मुक्खो त्ति ॥२४०९॥
अथ नित्यो मोक्षः 'तो ति' ततस्तर्हि 'सर्व वस्तु क्षणिकम्' इत्येतद् न भवति, मोक्षेणैव व्यभिचारात् । अथ स्व आत्मीयो विज्ञान-वेदना-संज्ञा-संस्कार-रूपात्मकस्कन्धस्य क्षणपरम्परारूपः संतानो नाद्यापि हतः, निःसंतानस्यैव च मोक्षः, अतो निःसंतानार्थ दीक्षा विधीयत इति ॥ २४०९॥
अत्रोत्तरमाह
छिण्णेणाछिण्णेण व किं संताणेण सव्वनट्ठरस । किंचाभावीभूयस्स स-परसताणचिंताए १॥ २४१० ॥
सर्वनष्टस्य सर्वप्रकारैविनाशमापनस्य च्छिन्नेन, अच्छिन्नेन वा संतानेन किं प्रयोजनम् , येन संतानहननार्थ दीक्षां गृह्णीयात् । किञ्च, सर्वथाऽभावीभूतस्य क्षणभङ्गुरतया सर्वथा विनष्टस्य किमनया चिन्तया- अयं स्वसंतानः, अयं तु परसंतानः, अयं तु न हतः, येनोच्यते- 'ससंताणो अहउ त्ति तो दिक्खा' इति ? ॥२४१०॥
अथ क्षणिकत्वसाधकपराभिमतप्रमाणमुपन्यस्य दूषणमाह--
सैव्वं पयं व खणियं पज्जते नासदरिसणाउ त्ति । नणु इत्तो च्चिय न खणियमंते नासोवलडीओ॥२४११॥
सर्व वस्तु क्षणिकम् , पर्यन्ते नाशदर्शनात् , पयोवदिति । आह- ननु यदि वस्तूनां पर्यन्ते नाशो दृश्यते, तर्हि प्रतिक्षणविनाशित्वे किमायातम् , येन सर्वं क्षणिकमुच्यते । सत्यम् , किन्त्वयमिह तदभिप्रायः- पर्यन्तेऽपि घटादीनां विनाशस्तावद् निर्हेतुक एवं भवति, मुद्रादेविनाशहेतारेयोगात् । तथाहि- मुद्गरादिना किं घट एवं क्रियते, कपालानि वा, तुच्छरूपोऽभावो वा ? इत्यादियुक्तितो
, अथ नित्यो, न क्षणिकं ततः सर्वमथ मतिः स्वसंतानः । अहत इति ततो दीक्षा निःसंतानस्य मोक्ष इति ॥ २४०९॥ २ छिन्नेनाच्छिन्नेन वा किं संतानेन सर्वनष्टस्य । किज्ञाऽभावीभूतस्य स्व-परसंतानचिन्तया ॥ २४१०॥ ३ गाथा २४०९। ४ सर्व पय इव क्षणिकं पर्यन्ते नाशदर्शनादिति । नन्वित एष न क्षणिकमन्ते नाशोपलब्धः ॥ २४॥1॥
॥९६७॥
Jan Education Intem
For Personal and
Use Only