Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥९६५॥
चेत् । ननु तत् श्रुतादर्थविज्ञानमसंख्येयसमयैर्निष्पन्नो यः सूत्रार्थग्रहणपरिणामस्तस्मादेव युक्तम् , न तु प्रतिसमयविनाशे । इदमुक्तं भवति- असंख्येयानेव समयान् यावच्चित्तस्यावस्थाने 'सर्व क्षणिकम्' इति विज्ञानोपयोगो युज्यते, न तु प्रतिसमयोच्छेदे । अत्र
बृहदत्तिः । कारणमाह- येन यस्मात् कारणात् पदस्य सावयवत्वात् तत्संबध्येकैकमप्यक्षरं संख्यातीतसामयिकमसंख्यातैः समयैर्निष्पद्यत इत्यर्थः, म तानि चाक्षराणि संख्यातानि समुदितानि पदं भवति । संख्यातैश्च पदैर्वाक्यं निष्पद्यते, तदर्थग्रहणपरिणामाच वाक्यार्थग्रहणपरिणामादित्यर्थः, सर्वक्षणभङ्गज्ञानं भवेत् । तच्चोत्पत्तिसमयानन्तरमेव नष्टस्य समुच्छिन्नस्य मनसोऽयुक्तमेवेति ॥२४०१॥२४०२॥२४०३॥
अन्यदपि क्षणभङ्गवादे यद् नोपपद्यते तद् दर्शयति'तित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । अज्झयणं झाण भावणा य का सव्वनासम्मि ?॥२४०४॥
तृप्तिर्धाणिः, मार्गगमनादिपवृत्तस्य खदः श्रमः, क्लमो ग्लानिः, सादृश्यं साधर्म्यम् , विपक्षो वैधय॑म् , प्रत्ययः प्रत्यभिज्ञानादि, आदिशब्दात खनिहितमत्यनुमार्गण-स्मरणादिपरिग्रहः । अध्ययनं पुनः पुनर्ग्रन्थाभ्यासः, ध्यानमेकालम्बने मनःस्थैर्यम् , भावना पौन:पुन्येनानित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा । एतानि सर्वाण्यप्युत्पत्यनन्तरमेव वस्तुनः सर्वनाशेऽङ्गीक्रियमाणे कथमुपपद्यन्ते ? इति ।। २४०४॥
यथा च नोत्पद्यन्ते तथा दर्शयन्नाह
अण्णण्णो पइगासं भुत्ता अंते न सो वि का त्तित्ती? । गतादओ वि एवं इय संववहारवुच्छित्ती॥२४०५॥
'ग्रसु ग्लसु अदने ग्रसनं ग्रासः कवलक्षेपः, ग्रस्यत इति वा ग्रासः कवलः । ततश्च प्रतिग्रासं प्रतिकवलं भोक्ता देवदत्तः क्षणिकत्वादन्यश्चान्यश्च भवति, भोजनक्रियायाश्चान्ते पर्यन्ते सोऽपि भोक्ता सर्वथा न भवति, भुजिक्रियाविशेषणस्याभावे तद्विशिष्टस्य देवदत्तस्यापि सर्वथोच्छेदात् । ततश्चकस्मिन्नन्त्यकवलप्रक्षेपे का तृप्तिः, भोक्तुश्चाभावात् कस्यासौ तृप्तिः ? । एवमुक्तानुसारेण गन्त्रादीनामपि श्रमायभावः स्वबुद्ध्या भावनीय इति । एवं समस्तलोकव्यवहारोच्छेदप्रसक्तिरिति ॥ २४०५॥
अत्र परःपाह--
समानरबह
तृप्तिः श्रमः क्लमः सादृश्य-विपक्ष-प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे ॥२४.४ ॥ २ अन्योऽन्यः प्रतिग्रासं भोक्ताऽन्ते न सोऽपि का तृप्तिः गन्धादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ २४०५ ॥
॥९६५॥
Jan E
inema
For Personal and Price Use Only
TANTwww.jaineibrary.org
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202