Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 147
________________ विशेषा. वृहदत्तिः । ॥९४५॥ भिधायैकाकिनं जमालिनं मुक्त्वा सर्वाण्यपि गतानि जिनसमीपमिति । एतदेवाह इच्छामो संबोहणमज्जो! पियदसणादओ ढंकं । वोत्तुं जमालिमक्कं मोत्तूण गया जिणसगासं ॥ २३३२॥ उक्तार्थैव ॥ इति पञ्चविंशतिगाथार्थः ॥ २३३२ ॥ ॥ इति बहुरताख्यः प्रथमो जमालिनिह्नवः समाप्तः॥ अथ द्वितीयनिह्नववक्तव्यतामाहसोलस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी तो उसमपुरे समुप्पण्णा ॥२३३ रायगिहे गुणसिलए वसु चउदसपुचि तीसगुत्ते य । आमलकप्पा नयरी मित्तसिरी कुर-पिउडाई ॥२३३४॥ व्याख्या-श्रीमन्महावीरजिनेन तदा षोडश वर्षाणि केवलज्ञानस्योत्पादितस्याभूवन् । ततश्च राजगृहापरनानि ऋषभपुरे नगरे जीवप्रदेशिकदृष्टिः समुत्पन्नेति । कथमुत्पन्ना ? इत्याह- राजगृहे नगरे गुणशिलके चैत्ये चतुर्दशपूर्विणो वसुनामान आचार्याः समागताः, तेषां च तिष्यगुप्तो नाम शिष्यः । स च तत्र पूर्वगतमालापकं वक्ष्यमाणस्वरूपमधीयानो वक्ष्यमाणयुक्तिभिर्विप्रतिपन्नोऽसंबुद्ध: परिहृतो गुरुभिर्विहरनामलकल्पायां नगर्यो गतः । तत्र मित्रश्रीनाम्ना श्रावकेण कूर-पिउडादिना कूर-सिक्थादिदानेन प्रतिबोधित इत्यर्थः ॥ २३३३ ।। २३३४ ॥ अथास्य नियुक्तिगाथाद्वयस्य भाष्यमाहआयप्पवायपुव्वं अहिज्जमाणस्स तीसगुत्तस्स । नयमयमयाणमाणस्स दिहिमोहो समुप्पण्णो ॥२३३५॥ इच्छामः संबोधनमार्य ! प्रियदर्शनादयो ढङ्गम् । उक्त्वा जमालिमेकं मुक्त्वा गता जिनसकाशम् ॥ २३३२ ॥ २ पौधश वर्षाणि तदा जिनेनौत्पादितस्य ज्ञानस्य । जीवप्रदेशिकरष्टिस्तत पषभपुरे समुत्पना ॥ २३३३॥ राजगृहे गुणशिलके वसुखातुर्दशपूर्वी तिष्यगुप्तक्ष । भामलकल्पा नगरी मित्नश्रीः कूर-सिक्थादिना ॥ २३३४॥ भात्मप्रवादपूर्वमधीयानस्य तिष्यगुप्तस्य । नयमतमजानतो रष्टिमोहः समुत्पनः ।। २३३५ ॥ ९४५॥

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202