Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
SHANCPIRAT
220 E2262402.62
विशेषा.
॥९४९॥
जीवपएसे जीवे त्ति वत्तव्यं सिया ? । नो इणडे समढे " इति । ततो यदि श्रुतं तत्र प्रमाणम् , ततोऽन्त्यप्रदेशस्यापि जीवत्वं नेष्टव्यम् , एकत्वात , प्रथमाद्यन्यतरप्रदेशवत् । किश्च, यदि श्रुतं हन्त ! प्रमाणीकरोषि, तदा सर्वेऽपि जीवप्रदेशाः परिपूर्णा जीवत्वेन श्रुते ।
वृहद्वत्तिः । भणिताः, न त्वेक एव चरमप्रदेशः । तथा च तत्रैवाभिहितम्- "जम्हा णं कसिणे पडिपुने लोगागासपएसतुल्ले जीवे चि बत्तवं सिया"। अतः श्रुतप्रामाण्यमिच्छता भवता नैक एवान्त्यप्रदेशो जीवत्वेनैष्टव्य इति ॥ २३४३॥
अमुमेवार्थ दृष्टान्तेन साधयन्नाहतंतू पडोवयारी न समत्तपडो य समुदिया ते उ । सव्वे समत्तपडओ सव्वपएसा तहा जीवो ॥ २३४४ ॥
एकस्तन्तुर्भवति समस्तपटोपकारी, तमप्यन्तरेण समस्तपटस्याभावात् । परं स एकस्तन्तुः समस्तपटो न भवति, किन्तु ते तन्तवः सर्वेऽपि समुदिताः समस्तपटव्यपदेशं लभन्त इति प्रतीतमेव । तथा जीवप्रदेशोऽप्येको जीवो न भवति, किन्तु सर्वेऽपि जीवप्रदेशाः समुदिता जीव इति ।। २४३४ ॥
" ननु पार यदुक्तम्- 'नयमयमयाणमाणस्स दिट्ठिपोहो समुप्पण्णा' इति । तत् कस्य नयस्यैवं मतम् ? इत्येतद् व्यक्तीकरणपूर्वकमुपदेशमाह
ऎवंभूयनयमयं देस-पएसा न वत्थुणो भिन्ना । तेणावत्थु त्ति मया कसिणं चिय वत्थुमिढं से ॥२३४५॥
जइ तं पमाणमेवं कसिणो जीवो अहोवयाराओ । देसे वि सव्वबुद्धी पवज्ज सेसे वि तो जीवं ॥२३४६॥
एवंभूतनयस्येदं मतं यदुत- देश-प्रदेशा न वस्तुनो भिन्नाः, तेन ताववस्तुरूपौ मतौ। अतो देश-प्रदेशकल्पनारहितं कृत्स्नं परिपूर्णमेव वस्तु 'से' तस्यैवंभूतनयस्येष्टम् । ततो यदि तदेवंभूतनयमतं प्रमाणं जानासि त्वम् , एवं तर्हि कृत्स्नः परिपूर्णो जीवो, न त्वन्त्यप्रदेशमात्रमिति प्रतिपद्यस्व । अथ 'ग्रामो दग्धः' 'पटो दग्धः' इत्यादिन्यायादेकदेशेऽपि सतस्तवस्तूपचारादन्त्यप्रदेशलक्षणे देशेऽपि समस्तजीवबुद्धिस्तत्र प्रवर्तते, तर्हि शेपे प्रथमादिप्रदेश उपचारतो जीवं प्रतिपद्यस्व, न्यायस्य समानत्वादिति ॥ २३४५॥ २३४६॥ १ पृ० ९४६ । २ तन्तुः पटोपकारी न समस्तपटश्च समुदितास्ते तु । सर्वे समस्तपटकः सर्वप्रदेशास्तथा जीवः ॥ २३४४ ॥ ३ गाथा २३३५ । । एवंभूतनवमतं देश-प्रवेशौ न वस्तुनो भिन्नौ । तेनावस्त्विति मती कृत्स्नमेव वस्विष्टं तस्य ॥ २३५५ ॥
॥९४९॥ यदि तत् प्रमाणमेवं कृत्स्नो जीवोऽथोपचारात् । देशेऽपि सर्वबुद्धिः प्रपद्यस्य शेषानपि ततो जीवम् ॥ २३४६ ॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202