Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 158
________________ बृहद्वृत्तिः विशेषा० ॥९५६॥ ___ अथैवंभूता मतिः परस्य भवेत् - असंयतदेवाधिष्ठिते यतिरूपे वन्द्यमाने तद्गतासंयमरूँपपीपानुपतिर्भवति, न त्वसौ प्रतिमायाम् । अत्रोच्यते- ननु देवताधिष्ठितप्रतिमायामप्ययमनुमतिलक्षणो दोषो भवेदेवेति ॥ २३६७॥ अथैवं ब्रूयात् परः । किम् ? इत्याह अह पडिमाए नदोसो जिणबुद्धीए नमओ विसुद्धस्स।तो जइरूवं नमओ जइबुद्धीए कहं दोसो ? ॥२३६८॥ अथ प्रतिमायां नायमनुमतिलक्षणो दोषः। किं कुर्वतः । नमस्यतः । कया? जिनबुद्ध्या । कथंभूतस्य । विशुद्धस्य-विशुद्धाध्यवसायस्य । यद्येवम् , ततो यतिबुद्ध्या यतिरूपं विशुद्धस्य नमस्यतः को दोषः, येन भवन्तः परस्परं न वन्दन्ते ? । अत्रापरः कश्चिदाह-- यद्येवम् , लिङ्गमात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्या विशुद्धस्य नमस्यतो न दोषः। तदयुक्तम् । पार्श्वस्थादीनां सम्यग्यतिरूपस्याप्यभावात् । तदभावश्च "आलएणं विहारेण" इत्यादियतिलिङ्गस्यानुपलम्भात् । ततः प्रत्यक्षदोषवतः पावस्थादीन् बन्दमानस्य तत्सावधानुज्ञालक्षणो दोष एव । उक्तं च-- ___ "जैइचेलं बगलिंगं जाणंतस्स नमओ हवइ दोसो । निद्धंधसं य नाऊण वंदमाणे धुवो दोसो ॥१॥" इत्यादि । प्रतिमायास्तु दोषाचरणाभावात् तद्वन्दने सावधानुज्ञाऽभावतो न दोष इति ।। २३६८ ॥ अत्र पुनरपि पराभिप्रायमाशङ्कय परिहरनाह अह पडिमं पि न वंदह देवासंकाइ तो न घेत्तव्या। आहारो-वहि-सज्जा मा देवकया भवेज्ज ण्हु ॥२३६९॥ अथ प्रतिमामपि न वन्दध्वे यूयम् , हन्त ! यधेवं शङ्काचारी भवान् , तर्हि मा देवकृता भवेयुरित्याहारो-पधि-शय्यादयोऽपि न ग्राह्या इति ।। २३६९ ।। किञ्च, इत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः । कुतः ? इत्याह TEREST ॥९५६॥ , अथ प्रतिमायां न दोपो जिनबुल्ला नमतो विशुद्धस्य । ततो यतिरूपं नमतो यतिबुज्या कथं दोषः ॥ २३६८ ॥ २ पृ. ९५५ । . बतिचेलं बकलिङ्ग जानतो नमतो भवेद् दोषः । निष्ठावंसं च ज्ञात्वा वन्दमाने भुवो दोषः ॥ २३६९ ॥ .. अथ प्रतिमामपि न वन्दध्वे देवाशङ्कया ततो न ग्रहीतव्याः । आहारो-पधि-शय्या मा देवकृता भवेयुर्नु ॥ २३७०॥ ब

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202