________________
बृहद्वृत्तिः
विशेषा० ॥९५६॥
___ अथैवंभूता मतिः परस्य भवेत् - असंयतदेवाधिष्ठिते यतिरूपे वन्द्यमाने तद्गतासंयमरूँपपीपानुपतिर्भवति, न त्वसौ प्रतिमायाम् । अत्रोच्यते- ननु देवताधिष्ठितप्रतिमायामप्ययमनुमतिलक्षणो दोषो भवेदेवेति ॥ २३६७॥
अथैवं ब्रूयात् परः । किम् ? इत्याह
अह पडिमाए नदोसो जिणबुद्धीए नमओ विसुद्धस्स।तो जइरूवं नमओ जइबुद्धीए कहं दोसो ? ॥२३६८॥
अथ प्रतिमायां नायमनुमतिलक्षणो दोषः। किं कुर्वतः । नमस्यतः । कया? जिनबुद्ध्या । कथंभूतस्य । विशुद्धस्य-विशुद्धाध्यवसायस्य । यद्येवम् , ततो यतिबुद्ध्या यतिरूपं विशुद्धस्य नमस्यतः को दोषः, येन भवन्तः परस्परं न वन्दन्ते ? । अत्रापरः कश्चिदाह-- यद्येवम् , लिङ्गमात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्या विशुद्धस्य नमस्यतो न दोषः। तदयुक्तम् । पार्श्वस्थादीनां सम्यग्यतिरूपस्याप्यभावात् । तदभावश्च "आलएणं विहारेण" इत्यादियतिलिङ्गस्यानुपलम्भात् । ततः प्रत्यक्षदोषवतः पावस्थादीन् बन्दमानस्य तत्सावधानुज्ञालक्षणो दोष एव । उक्तं च--
___ "जैइचेलं बगलिंगं जाणंतस्स नमओ हवइ दोसो । निद्धंधसं य नाऊण वंदमाणे धुवो दोसो ॥१॥" इत्यादि । प्रतिमायास्तु दोषाचरणाभावात् तद्वन्दने सावधानुज्ञाऽभावतो न दोष इति ।। २३६८ ॥ अत्र पुनरपि पराभिप्रायमाशङ्कय परिहरनाह
अह पडिमं पि न वंदह देवासंकाइ तो न घेत्तव्या। आहारो-वहि-सज्जा मा देवकया भवेज्ज ण्हु ॥२३६९॥
अथ प्रतिमामपि न वन्दध्वे यूयम् , हन्त ! यधेवं शङ्काचारी भवान् , तर्हि मा देवकृता भवेयुरित्याहारो-पधि-शय्यादयोऽपि न ग्राह्या इति ।। २३६९ ।।
किञ्च, इत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः । कुतः ? इत्याह
TEREST
॥९५६॥
, अथ प्रतिमायां न दोपो जिनबुल्ला नमतो विशुद्धस्य । ततो यतिरूपं नमतो यतिबुज्या कथं दोषः ॥ २३६८ ॥ २ पृ. ९५५ । .
बतिचेलं बकलिङ्ग जानतो नमतो भवेद् दोषः । निष्ठावंसं च ज्ञात्वा वन्दमाने भुवो दोषः ॥ २३६९ ॥ .. अथ प्रतिमामपि न वन्दध्वे देवाशङ्कया ततो न ग्रहीतव्याः । आहारो-पधि-शय्या मा देवकृता भवेयुर्नु ॥ २३७०॥
ब