Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
वृहद्वत्तिः ।
॥९५५||
अथ जिनवचनाजीवादिषु न शङ्का, तदेतदिहापि समानमित्याहतेव्वयणाओ व मई नणु तव्वयणे सुसाहुवित्तो त्ति । आलय-विहारसमिओ समणोऽयं वदणिजो त्ति ॥२३६४॥
अथ तद्वचनाजिनवचनाद् न जीवाद्यर्थेषु शङ्का । ननु यद्येवम् , तद्ववचन इदमप्यस्ति यदुत-शोभनं साधुवृत्तं श्रमणशीलं यस्यासौ सुसाधुवृत्त इति हेतोः 'श्रमणोऽयम्' इति निश्चयाद् वन्दनीयः। सुसाधुत्तोऽपि स कथं ज्ञायते ? इत्याह- 'आलय-विहारसमिओ' इति कृत्वा । उक्तं च
___“आलयेणं विहारेणं ठाणा चंकमणेण य । सक्का सुविहियं नाउं भासावेणइएण य ॥१॥" इति ॥ २३६४॥ उपपत्त्यन्तरमाह-- जैह वा जिणिंदपडिमं जिणगुणरहियं ति जाणमाणा वि। परिणामविसुद्धत्थं वंदह तह किं न साहं पि?॥२३६५॥ हुन्ज नवा साहुत्तं जइरूवे नत्थि चेव पडिमाए । सा कीस वंदणिज्जा जइरूवे कीस पडिसहो ? ॥२३६६॥
सुगमे, नवरं प्रथमगाथायां प्रतिमायाः साधुरूपेण सह वन्दनीयत्वे साम्यमुक्तम् । द्वितीयगाथायां तु साधुरूपे विशेष दर्शयतियतिरूपे प्राणिनि साधुत्वं भवेद् नवा ? इति संदिग्धमेव । प्रतिमायां तु जिनत्वं नास्त्येवेति निश्चयः । ततः किमिति सा बन्दनीया , यतिरूपे च किमिति वन्दनप्रतिषेधः ? ॥ २३६५ ॥ २३६६ ॥
अत्रोत्तरमाह-- असंजयजइरूवे पावाणुमई मई न पडिमाए । नणु देवाणुगयाए पडिमाए वि हुज्ज सो दोसो ॥२३६७॥
१ तवचनाद् वा मतिर्ननु तवचने सुसाधुवृत्त इति । आलय-विहारसमेतः श्रमणोऽयं वन्दनीय इति ॥ २३६४ ॥ २ आलयेन विहारेण स्थानाचकमणेन च । शक्त्या सुविहितं ज्ञात्वा भाषावैनयिकेन च ॥१॥ ३ यथा वा जिनेन्द्रप्रतिमा जिनगुणरहितामिति जानन्तोऽपि । परिणामविशुद्धार्थ वन्दध्वे तथा किं न साधुमपि ॥ २३६५ ॥ ___ भवेद् नवा साधुत्वं यतिरूपे नास्त्येव प्रतिमायाम् । सा कस्माद् वन्दनीया यतिरूप कस्मात् प्रतिषेधः? ॥२३६६ ॥ ५ असंयतयतिरूपे पापानुमतिमतिर्ने प्रतिमायाम् । ननु देवानुगतायां प्रतिमायामपि भवेत् स दोषः ॥ २३६७ ॥
॥९५५||
Jan Education Interna
For Personal and Price Use Only
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202