Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 155
________________ बृहदाचः। वास रक्षता शीघ्रमेव निस्तारिता योगाः । ततोऽनेन तच्छरीरं मुक्त्वा दिवं गच्छता प्रोक्ताः साधवो यथा क्षमणीयं भदन्तैर्यदसंयतेन सता विशेषा. मयाऽऽत्मनो वन्दनादि कारिताश्चारित्रिणो यूयम् । अहं ह्य नुकदिने कालं कृत्वा दिवं गतो युष्मदनुकम्मयाऽत्रागतः, निस्तारिताथ भवतामागाढयोगाः । इत्याद्युक्त्वा क्षमयित्वा च स्वस्थानं गतः । ततस्ते साधवस्तच्छरीरकं परिष्ठाप्य चिन्तयन्ति- 'अहो ! असंयतो ॥९५३॥ बहकालं वन्दितः। तदित्थमन्यत्रापि शङ्का, को जानाति- 'कोऽपि संयतः, कोऽप्यसंयतो देवः । इति' सर्वस्याप्यवन्दनमेव श्रेयः, अन्यथा ह्यसंयतवन्दनं मृपावादश्च स्यात् । इत्थं तथाविधगुरुकर्मोदयात् तेऽपरिणतमतयः साधवोऽव्यक्तमतं प्रतिपन्नाः परस्परं न वन्दन्ते । For ततः स्थविरस्तेऽभिहिताः, यदि परस्मिन् सर्वत्र भवतां संदेहः, तर्हि येनोक्तम्- 'देवोऽहम्' इति, तत्रापि भवतां कथं न संदेहः ?-किं स देवोऽदेवो वा ? इति । यदि तेन स्वयमेव कथितं- 'अहं देवः' तथा, देवरूपं च प्रत्यक्षत एव दृष्टम् , इति न तत्र संदेहः । हन्त ! - यद्येवम तर्हि य एवं कथयन्ति- 'वयं साधवः' तथा, साधुरूपं प्रत्यक्षत एव दृश्यते, तेषु क: साधुत्वसंदेहः, येन परस्परं यूयं न बन्दध्वे ? । न च साधुवचनाद् देववचनं सत्यमिति शक्यते वक्तुम् । देववचनं हि क्रीडाद्यर्थमन्यथापि संभाव्यते, न तु साधुवचनम् , तद्विरतत्वात् तेषामिति । एवं च युक्तिभियोवद् न प्रज्ञाप्यन्ते तावदुद्धाव्य बाह्याः कृताः । पर्यटन्तश्च राजगृहनगरं गताः । तत्र च मौर्यवंशसंभूतो बलभद्रो नाम राजा । स च श्राद्धः। ततस्तेन ते विज्ञाता यथाऽव्यक्तवादिनो निहवा इह समायाता गुणशिलकचैत्ये तिष्ठन्ति । ततः स्वपुरुषान् प्रेष्य राजकूल आनायितास्तेन ते । कटकमन मारणार्थ चानुज्ञाताः। ततो हस्तिनि कटकेषु च तन्मदनार्थमानीतेषु तैः प्रोक्तम्- 'राजन् ! वयं जानीमा- 'श्रावकस्त्वम्' तत् कथमस्मान् श्रमणानित्यं मारयसि ?' । ततो राज्ञा प्रोक्तम्- 'युष्मत्सिद्धान्तेनैव को जानाति 'किं श्रावकोऽहं नवा ?' । भवन्तोऽपि किं चौराः, चारिकाः, अभिमरा वा ? इत्यपि को वेत्ति ? । तैः प्रोक्तम्- 'साधवो वयम्' । यद्येवम् , अव्यक्तवादितया किमिति परस्परमपि यथाज्येष्ठं वन्दनादिकं न कुरुथ । इत्यादिनिष्ठुरैर्मृदुभिश्च वचनैः प्रोक्तास्ते नरपतिना । ततः संबुद्धा लज्जिताश्च निःशङ्किताः सन्मार्ग प्रतिपन्नाः। ततो राज्ञा प्रोक्तम्- 'भवतां संवोधनार्थमिदं मया सर्वमपि विहितम्' इति क्षमणीयमिति ॥ २३५७ ॥ अमुमेवार्थ भाष्यकारः प्राह गुरुणा देवीभूएण समणरूवेण वाइया सीसा । सम्भावे परिकहिए अब्बत्तयदिट्टिणो जाया ॥ २३५८ ।। गतार्था ॥ २३५८ ॥ 1 गुरुणा देवीभूतेन भ्रमणरूपेण वादिताः शिष्याः । सद्भावे परिकधितेऽव्यक्तकदृष्टयो जाताः ॥ २३५८ ॥ ९५३॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202