________________
बृहदाचः।
वास
रक्षता शीघ्रमेव निस्तारिता योगाः । ततोऽनेन तच्छरीरं मुक्त्वा दिवं गच्छता प्रोक्ताः साधवो यथा क्षमणीयं भदन्तैर्यदसंयतेन सता विशेषा.
मयाऽऽत्मनो वन्दनादि कारिताश्चारित्रिणो यूयम् । अहं ह्य नुकदिने कालं कृत्वा दिवं गतो युष्मदनुकम्मयाऽत्रागतः, निस्तारिताथ
भवतामागाढयोगाः । इत्याद्युक्त्वा क्षमयित्वा च स्वस्थानं गतः । ततस्ते साधवस्तच्छरीरकं परिष्ठाप्य चिन्तयन्ति- 'अहो ! असंयतो ॥९५३॥ बहकालं वन्दितः। तदित्थमन्यत्रापि शङ्का, को जानाति- 'कोऽपि संयतः, कोऽप्यसंयतो देवः । इति' सर्वस्याप्यवन्दनमेव श्रेयः, अन्यथा
ह्यसंयतवन्दनं मृपावादश्च स्यात् । इत्थं तथाविधगुरुकर्मोदयात् तेऽपरिणतमतयः साधवोऽव्यक्तमतं प्रतिपन्नाः परस्परं न वन्दन्ते । For ततः स्थविरस्तेऽभिहिताः, यदि परस्मिन् सर्वत्र भवतां संदेहः, तर्हि येनोक्तम्- 'देवोऽहम्' इति, तत्रापि भवतां कथं न संदेहः ?-किं
स देवोऽदेवो वा ? इति । यदि तेन स्वयमेव कथितं- 'अहं देवः' तथा, देवरूपं च प्रत्यक्षत एव दृष्टम् , इति न तत्र संदेहः । हन्त ! - यद्येवम तर्हि य एवं कथयन्ति- 'वयं साधवः' तथा, साधुरूपं प्रत्यक्षत एव दृश्यते, तेषु क: साधुत्वसंदेहः, येन परस्परं यूयं न बन्दध्वे ? । न च साधुवचनाद् देववचनं सत्यमिति शक्यते वक्तुम् । देववचनं हि क्रीडाद्यर्थमन्यथापि संभाव्यते, न तु साधुवचनम् , तद्विरतत्वात् तेषामिति । एवं च युक्तिभियोवद् न प्रज्ञाप्यन्ते तावदुद्धाव्य बाह्याः कृताः । पर्यटन्तश्च राजगृहनगरं गताः । तत्र च मौर्यवंशसंभूतो बलभद्रो नाम राजा । स च श्राद्धः। ततस्तेन ते विज्ञाता यथाऽव्यक्तवादिनो निहवा इह समायाता गुणशिलकचैत्ये तिष्ठन्ति । ततः स्वपुरुषान् प्रेष्य राजकूल आनायितास्तेन ते । कटकमन मारणार्थ चानुज्ञाताः। ततो हस्तिनि कटकेषु च तन्मदनार्थमानीतेषु तैः प्रोक्तम्- 'राजन् ! वयं जानीमा- 'श्रावकस्त्वम्' तत् कथमस्मान् श्रमणानित्यं मारयसि ?' । ततो राज्ञा प्रोक्तम्- 'युष्मत्सिद्धान्तेनैव को जानाति 'किं श्रावकोऽहं नवा ?' । भवन्तोऽपि किं चौराः, चारिकाः, अभिमरा वा ? इत्यपि को वेत्ति ? । तैः प्रोक्तम्- 'साधवो वयम्' । यद्येवम् , अव्यक्तवादितया किमिति परस्परमपि यथाज्येष्ठं वन्दनादिकं न कुरुथ । इत्यादिनिष्ठुरैर्मृदुभिश्च वचनैः प्रोक्तास्ते नरपतिना । ततः संबुद्धा लज्जिताश्च निःशङ्किताः सन्मार्ग प्रतिपन्नाः। ततो राज्ञा प्रोक्तम्- 'भवतां संवोधनार्थमिदं मया सर्वमपि विहितम्' इति क्षमणीयमिति ॥ २३५७ ॥
अमुमेवार्थ भाष्यकारः प्राह
गुरुणा देवीभूएण समणरूवेण वाइया सीसा । सम्भावे परिकहिए अब्बत्तयदिट्टिणो जाया ॥ २३५८ ।। गतार्था ॥ २३५८ ॥
1 गुरुणा देवीभूतेन भ्रमणरूपेण वादिताः शिष्याः । सद्भावे परिकधितेऽव्यक्तकदृष्टयो जाताः ॥ २३५८ ॥
९५३॥
For Personal and
Use Only